________________
( १७ ) लक्षणा सप्तभङ्गी, तत्र प्रथमो भङ्गो विधिकल्पनया, द्वितीयो निषेधकल्पनया, तृतीयः क्रमतो विधिनिषेधकल्पनया, चतुर्थो युगपद् विधिनिषेध कल्पनया, पञ्चमो विधिकल्पनया युगपद् विधिनिषेषकल्पनया.च, पष्ठो निषेधकल्पनया युगपद् विधिनिषेधकल्पनया च सप्तमः क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च। सर्वत्र स्यादित्यनेकान्तावद्योतकमव्ययम्, तथा चानेकान्तात्मके वस्तुनि स्वप्रतिपक्षधर्मयुक्ते स्वसद्भावो नापेक्षामन्तरेणेति स्यात् पदोपादानात् कथञ्चिदिति लभ्यते तथा च स्यादस्त्येवसर्वमित्यस्य सर्व कुम्भादिवस्तु स्व द्रव्यक्षेत्रकालभावरूपेणास्त्येव, न पुनः परद्रव्यक्षेत्रकालभावरूपेण, तेनाप्यस्तित्वे स्वरूपहानिप्रसङ्गः, स्यान्नास्त्येव सर्वमित्यस्य परद्रव्यक्षेत्रकालभावरूपेण कुम्भादिव. स्तु नास्त्येवेति, एवं तृतीयादिभङ्गानामप्यर्थो ज्ञेयः, भङ्गमात्रेऽनभिमतार्थ व्यावृत्त्यर्थमवधारणार्थकैवकारोपादानम्, तदुक्तम्
'वाक्य ऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्त्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् ॥१॥' इति, प्रतिनियतस्वरूपप्रतिपत्तये स्यादितिपदं भङ्गमात्रे प्रयोक्तव्यम्, यत्राप्यसौ न प्रयुज्यते तत्रापि बुद्धिमद्भिः प्रतीयत एव, तदुक्तम्_ 'सोऽप्रयुक्तोऽपि वा तज्ज्ञः सर्वत्रार्थात्प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥१॥' इति, अस्तेवेत्युक्तौ सर्वप्रकारेणास्तित्वं नास्त्येवेत्युक्तौ सर्वप्रकारेण नास्तित्वं प्रसज्येतेति प्रतिनियतावच्छेदकप्रतिपत्तये स्यादित्युपादेयमिति यावत्, क्वचिद् विधेः क्वचिनिषेधस्य क्वचित् क्रमेण विधिनिषेधयोः क्वचिद् युगपद् विधि