________________
मतिज्ञानमिन्द्रियनिमित्तकमनिन्द्रियनिमित्तकमिति द्विविधम्, तद्भेदा अवग्रहेहापायधारणा अर्थविषयाः, तत्रावग्रहोऽव्यक्तं ज्ञानम्, अवगृहीतार्थविशेषाकाङ्क्षणमोहा, ईहित विशेषनिर्णयोऽपायः, तस्यैव कश्चित्कालमवस्थानं धारणा। व्यञ्जनस्यावग्रह एव भवति, व्यञ्जनावग्रहोऽप्राप्यकारिणोश्चक्षुर्मनसो न भवति अन्येषां तु प्राप्यकारिणां स्पर्शनादीन्द्रियाणां भवति, श्रुतं मतिपूर्वकं, तदङ्गबाह्यमङ्गप्रविष्टञ्च, तत्र सामायिकं चतुर्विशतिस्तवो वन्दनं प्रतिक्रमणं कायव्युत्सर्गः प्रत्याख्यानं दशवैकालिकं उत्तराध्यायाः कल्पव्यवहारौ निशीथमृषिभाषितानीत्येवमादिकमनेकविधमङ्गबाह्यम्, आचारः मूत्रकृतं स्थानं समवायः व्याख्याप्रज्ञप्तिः ज्ञातधर्मकथा उपासकाध्ययनदशा अन्तकृद्दशा अनुत्तरोपपातिकदशाः प्रश्नव्याकरणम् विपाकसूत्रम् दृष्टिवाद इत्येवं द्वादशविधमङ्गप्रविष्ट मिति, भव प्रत्ययः क्षयोपशमनिमित्तश्चेत्येवं द्विविधोऽवधिः, तत्र नारकाणां देवानाञ्च भवप्रत्ययोऽवधिः, नारकदेवेभ्यो भिन्नानां तिर्यग्योनिजानां मनुष्याणां च क्षयोपशममनिमित्तः, स च अनानुगमिकानुगमिकहीयमानकवर्द्धमानकानवस्थितावस्थितभेदेन षड्विधः, ऋजुमति-विपुलमतिभेदेन मनःपर्यवज्ञानं द्विविधमिति, केवलं पुनः परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमिति, पञ्चानामपि ज्ञानानां तत्त्वार्थाधिगमसूत्रादितो विशेषजिज्ञासुभिरधिगमः कत्र्तव्यः,प्रकृतमनुसरामः, ज्ञानमपिनिर्विकल्पकप्रत्यक्षं स्वलक्षणविषयकं प्रमाणतया बौद्ध. रुपेयते तस्य संशयविपर्ययानध्यवसायानाञ्च प्रमाणत्वापाकरणार्थ