________________
तथेति मीमांस्य संवेदनकस्वभावं ज्ञानं मानमिति पारमार्थिकपदार्थसार्थापलापिनो ज्ञानाढतादिवादिन इति तदेतत्परमतनिकरव्यपोहायोच्यते। स्वपरव्यवसायि स्याज्ज्ञानं मानं नचापरम् ॥
उत्पत्तौ परतस्तस्य, तत्त्वं ज्ञप्तौ स्वतोऽपि तत् ॥ १० ॥
अत्र मानमिति लक्ष्यम् स्वपरव्यवसायिज्ञानमिति लक्षणम्, तत्र अज्ञानरूपस्य व्यवहारपथानवतारिणः सन्मात्रगोचरस्य स्व. समयप्रसिद्धस्य दर्शनस्य नैयायिकादिकल्पितस्य चेन्द्रियसन्निकर्षादेः प्रामाण्यापाकरणार्थ ज्ञानमिति विशेष्यम् तच्च राद्धान्ते मतिश्रुतावधिमनः पर्यवकेवलभेदेन पञ्चविधमपि ग्राह्यम्, तत्र मतिश्रुता. वधयो भ्रमरूपामत्यज्ञान-श्रुताज्ञानविभङ्गज्ञानव्यपदेश्याः स्वपरव्यवसायोति विशेषणेन व्यवच्छेद्याः, मनःपर्यवकेवलज्ञाने भ्रमरूपे भवत एव नेति, मनःपर्यवस्य दर्शनभिदा नास्ति, किन्तु मतिश्रुतावधिकेवलानां दर्शनभिदा समस्ति, परन्तु । "साकारः प्रत्ययः सर्वो विमुक्तः संशयादिना ॥
साकारार्थपरिच्छेदात्, प्रमाणं तन्मनीषिणाम् ॥१॥"
इति वचन प्रामाण्यात्साकारोपयोगरूपस्य ज्ञानस्यैव प्रामाण्यमिष्यते, नतु निराकारोपयोगरूपस्य दर्शनस्येति ज्ञानपदेन तद् व्यवच्छेदो युक्त एवेति तत्र असर्वपर्यायं सर्वद्रव्यं मतिश्रुतयो विषयः, असर्वपर्यायं रूपिद्रव्यमवधिविषयः, अवधिज्ञानस्यानन्त भागो मनःपर्यायविषयः सर्वद्रव्य-सर्वपर्यायाः केवलविषयः,