________________
( १३२ ) माध्यमिकमते तु सर्व शून्यमिति, शुद्धां संविदं माध्यमिकोsभ्युपगच्छतीति केचित् । एतन्मतचतुष्टयप्रतिपादकं प्राचां पद्यमिदम् "अर्थोज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते,
__ प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकराश्रितः ॥ योगाचारमतानुगैरभिमता साकारबुद्धिः परा,
मन्यन्ते वत मध्यमा कृतधियः स्वस्थां परां संविदम् ॥१॥"
सुशीलसूरिणा नाम्ना, षड्दर्शनस्य दर्पणे ॥ संक्षेपतोऽत्रप्रोक्तं वै, प्रसिद्ध बौद्धदर्शनम् ॥१॥
॥ इति बौद्धदर्शनम् ॥
Supp
ONE