________________
( १३१ ) तदभिमतखण्डनयुक्तयोऽज्यत्रोपर्वाणताः इति, बौद्धास्सौत्रान्तिकवैभाषिक-योगाचार माध्यमिकभेदेन चत्वारः, तत्र सौत्रान्तिकः स्वलक्षणात्मकं क्षणिकं बाह्यमर्थ स्वीकरोति किन्तु नित्यमसावप्रत्यक्ष एव, ज्ञानाकारान्यथानुपपत्या तु सकल्प्यते, संवादित्व प्रामाणमर्थप्रमाकत्वञ्च संवादः, साकार ज्ञानमेव प्रमाण, स्वसंविदितश्चत्, निर्विकल्पकश्च तत् संवेदनं, निर्विकल्पकस्य च स्वानुरूप स विकल्पकोत्पादनेन प्रामाण्यं, तदुक्तं "यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता॥' इति, तेन क्षणक्षयस्वर्गप्रापणशक्तयादे निविकल्पकस्य प्रत्यक्षस्य भावेऽपि स्वानुरूपविकल्पाजननान्न प्रामाण्यम् अत एवार्थक्रियाकारित्वादिलिङ्गन क्षणिकत्वस्यानुमानं तत्र प्रमाणमिति, नैरात्म्यज्ञानं मुक्तिकारणं, यतो नैरात्म्यभावनातो ज्ञानसन्तानोच्छेदलक्षणो मोक्षो भवतीति, वैभाषिकमते ज्ञानं निराकारमेव, बाह्यार्थज्ञानयोरेककालीनसामग्रीद्वयसद्भावतो युगपदेवोत्पत्ति स्तत एव तयो विषयविषायिभावः, क्षणिकत्वाद्यभ्युपगमस्तु सौत्रान्तिकवत् ।
योगाचारमते साकारविज्ञानमात्रमेव तत्त्वं तस्यैवाकारविशेषाः घटपटादयः, न तु बाह्योऽर्थः समस्ति, चैत्रमैत्रादयो विज्ञानसन्तानरूपा एव, प्रवृत्तिविज्ञानसन्तानालयविज्ञानसन्तानभेदेन विज्ञानसन्तानो द्विविधः, तत्र घटपटाद्याकारविज्ञानसन्तानः प्रवृत्तिविज्ञान सन्तानः, अहमहमित्याकारज्ञानसन्तान आलयविज्ञान आत्मस्थानीयः सुषुप्तावप्यनुवर्तते, स एव सर्ववासनाधारभूतः, तद् विशुद्धिरेवापवर्ग इति।