________________
( १२८ )
रूपत्वेऽपिएको महान्धान्यराशिरितिवदेको महान् घट इति प्रत्ययोपपत्तिः, अदृश्यपरमाणुपुञ्ज है' श्यपरमाणुपुञ्जस्योत्पत्त्या प्रत्यक्षत्वमुपपद्यते । इति दुःखनामधेयमार्थसत्यम्, आत्मानात्मीयस्वभावाख्यो रागद्वेषमोहानां गणस्मस्तो यतो लोके समुदेति तत् समुदयनामार्यसत्यम् ॥
विश्वत्रयविवरवत्र्त्तमानानां घटपटादीनां द्वितीयादिक्षणेषु स एवायं स एवायमित्याद्युल्लेखेन ये संस्काराज्ञानसन्ताना उत्पद्यते ते क्षणिका:, इत्येवं क्षणिकाः सर्वसंस्कारा इत्याकारिकावासना मागनामार्य सत्यम् । सर्वक्षणिकत्व- सर्वनैरात्म्यवासनारूपो निरोधोनामार्थसत्यम्, तदुक्तं - "चित्तमेव संसारो रागादिक्लेशवासितं ॥ तदेव विनिर्मुक्तं भवान्त इति कथ्यते ॥ १॥ " इति
1
1
निरुपप्लव चित्तसन्तानोऽपवर्ग इति निष्कर्षः । एतत् तत्त्वसंलग्नानि द्विविधानि द्वादशायतनानि तद्यथा स्पर्शनादोनि पञ्चेन्द्रियाणि स्पर्शाद्याः पश्वविषयाः वित्तं धर्मस्यायतनं चैतस्थानमित्येवं द्वादशायतनानि । तथा जाति-जरा-मरण-भवोपादान- - तृष्णा-वेदनास्पर्श-षडायतननाम-रूप-विज्ञान संस्कारा-विद्या-रूपाणि द्वादशायतनानीति । अर्थक्रियेति, एतन्मते अर्थक्रियाकारित्वमेवसत्त्वम्, तच्च क्रमयौगपद्याभ्यां व्याप्तं, अक्षणिके च क्रमेणार्थक्रियाकारित्वं न संभवति, यद्यदायत्समर्थं तत् तदातत्करोत्येवेति नियमेन प्रथमक्षण एव स्वाखिलकार्यसमर्थत्वात् स्वाखिलकार्याण्युत्पादयेत् कारणमिति द्वितीयक्षणे करणीयाभावान्नकुर्यात् किमपीति, यदि प्रथमक्षणे यत् किञ्चित् कार्यं प्रत्येव समर्थ कारणं, तदानीं