________________
( १२७ ) नाप्येकैवविधाऽन्यदापिपरकृन्न क्रिया वा भवेद, द्वेधाऽपिक्षणभङ्गसङ्गतिरितः, साध्यव विश्राम्यति ॥१॥ इति,
पूर्वभवपुण्यपापपरिणामबद्धासुखदुःखानुभवरूपो वेदना स्काधः, तथा च भिक्षुभिक्षामटश्चरण कण्टके लग्ने प्राह
"इत एकनवते कल्पे, शक्तया मे पुरुषो हतः॥ तेन कर्म विपाकेन, पादे विद्धोऽस्मिभिक्षवः ॥१॥' इति,
संज्ञास्कन्धोनाम नामस्कन्धः, सर्वमिदं सांसारिक सचेतनाचेतनस्वरूपं व्यवहरणं संज्ञामात्र नाममात्रम्, नात्रकलत्रपुत्रमित्रभ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः, तथा च तत् सूत्र " तानीमानि भिक्षवः संज्ञामात्र व्यवहारमात्र सवृतिमात्रम्, अतीतोऽद्धा, अनागतोऽद्धा, स हेतुको विनाशः, सहेतुको विनाशः, आकाशं, पुद्गलाः" इति ॥
इहभवपरभवविषयः सन्तानः पदार्थ निरीक्षणप्रबुद्धपूर्वभवानुभूतसंस्कारस्य प्रमातुः स एवायं देवदत्तः' 'सैवेयं दोपकलिका' इत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारस्कन्धः, तदुक्तं
"यस्मिन्न वहि सन्ताने, आहिता कर्मवासना ॥ फलं तत्रैव सन्धत्ते, कार्पासे रक्तता यथा ॥१॥" इति, रूपरसगन्धस्पर्शाणुप्रचयो रूपस्कन्धः, बोद्धमते ह्यवयविनां घटादीनां युक्तिजालेरपाकृतत्वात् परमाणव तात्त्विकाः, यथैकस्य कोशस्य दूरेऽप्रत्यक्षत्वेऽपि तत् समूहस्य प्रत्यक्षत्वं. तथैकपरमाणो. रप्रत्यक्षत्वेऽपि तत् समूहस्य प्रत्यक्षत्वं, घटादेः परमाप्रचय