________________
पूर्णप्रज्ञदर्शनं नकुलीयदर्शनं पाशुपतदर्शनं वेदान्तदर्शनं शैवदर्शनं प्रत्यभिज्ञान दर्शनं रसेश्वरदर्शनं जैमिनीयदर्शनमौलुक्यदर्शनमक्षपाददर्शनं पाणिनिदर्शनं पातञ्जल दर्शनमादि सर्वदर्शन संग्रहादौ निवद्धानि सन्ति ।
एतेषु सत्स्वपि पण्डितानां परमप्रियाणि षडेव दर्शनानि संमतानि तदत्र केचित्
वेदान्तदर्शनं मीमांसादर्शनं सांख्यदर्शनं पातञ्जलदर्शनं कणाद दर्शनमक्षपाददर्शनमितिषट्सख्याक संगिरन्ते । केचिच्च बुधजना:सौत्रान्तिक वैभाषिक येगाचार माध्यमिक (बौद्ध) जैन चार्वाकाणामपि दर्शनानि मत्वा पूर्वदर्शनेन षटकेन सह द्वादश संख्यकानि दर्शनानि मन्यन्ते ।
कतिचनाचार्य श्री हरिभद्रसूरीश्वरादयः-बौद्ध सांख्य मीमांसा न्याय जैन वैशेषिकाणां दर्शनान्येव षड्दर्शनपदेन प्रख्यापयन्ति-यथाबौद्धं नैयायिकं सांख्यं जैन वैशेषिकं तथा।
जैमिनीयञ्चनामानि-दर्शनानाममून्यहो ।। आ० श्री हरिभद्रसूरिः स्वपरसम्प्रदाये प्रख्यातो दार्शनिक प्रासीत् । तस्य च जन्मपञ्चम्या विक्रमशताब्दयाः परभागे स्वर्गारोहणञ्च षष्ठ्याः विक्रमशताब्याः पूर्वभागेऽभूदिति श्रूयते । तत्कृत षड्दर्शन समुच्चयस्या धारेणवेम षड्दर्शनदर्पणा नामक ग्रन्थं विशदं प्राञ्जलं सुसरलञ्च कर्तु यत्नवान् विद्वानेषजन: प्रतिभाति ।
जनजगति प्रसिद्धतमानां जगद्गुरूपनाम्नां गुर्जरदेशोत्पन्नानां श्रीमद्विजयनेमिसूरीश्वराणां समुदायेऽष्टदिग्गजानामिव शास्त्रधुरन्धराणां तच्छिष्याणामन्यतमस्य विदितव्याकरणादिवंदुष्यव्याकरण वनव्याघ्रोपनाम