________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३४५ यतो धर्म्येव तयोरेक आत्मा, स च व्यतिरिक्त इति, न च निरुध्यमानोत्पद्यमानधर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दृग्गोचरमवतरति कस्यचिदिति तादृशोऽसद्व्यवहारविषयतैव । अथा
2
दर्शयति-यत इति । तयोः धर्मयोः । स च धर्मी च । व्यतिरिक्तः धर्माभ्यां भिन्नः, तथा च कथं स तयोरेक आत्मा, यो हि यतो व्यतिरिक्तः स न तस्यात्मेति । न च धर्माभ्यां व्यतिरिक्तो धर्मी उपलभ्यत इति योग्यानुपलब्ध्या धर्मव्यतिरिक्तस्य धर्मिणोऽभाव एवेति तदनुवृत्त्या परिणामव्यवहारोऽसन्नेवेत्येवमुपगमेऽ सद्व्यवहारविषयतैव धर्मव्यतिरिक्तस्य धर्मिण इत्याह- न चेति- अस्य 'अवतरति' इत्यनेनान्वयः । ‘उपलब्धिलक्षणप्राप्तः' इत्यनेन योग्यत्वं तस्यावेदितम् तेनाऽयोग्यानुपलब्धेरभावानियतत्वेऽपि न क्षतिः । तादृशः उपलब्धिलक्षणप्राप्तस्यापि निरुध्यमानोत्पद्यमानधर्मद्वयव्यतिरिक्तस्य धर्मिणः सर्वैरपि प्रमातृभिरनुपलभ्यमानस्य । असद्व्यवहारविषयतैवेति-यो हि योग्यत्वे सति न कस्यापि प्रमातुर्हग्गोचरत्वमवतरति सोऽसन्निति व्यवहियते निरुध्यमानोत्पाद्यमानधर्मद्वययतिरिक्तोऽपि धर्मी योग्यः सन्न कस्यापि प्रमातुर्हग्गोचरमवतरतीति सोऽप्यसन्नित्येवं व्यवहर्तव्य इति । 'असद्' इत्याकारकव्यवहारविषयता तस्येत्यर्थः । प्रच्यवमान उत्पद्यमानश्च धर्मो धर्मिणोऽभिन्न एवेोपेयते तदाऽपि साङ्ख्यस्य निरुक्तपरिणामवादो न सम्भवतीत्याह- अथेति - यदीत्यर्थः । तथाऽपि निरुध्यमानोत्पद्यमानधर्मयोर्धर्मिणोऽभिन्नत्वाभ्युपगमेऽपि यथा धर्मिस्वरूपेण धर्मी परिणमतीति न भवति तथोत्पद्यमान- निरुध्यमानधर्मावपि धर्मिस्वरूपाभिन्नाविति तदभिन्नाऽभिन्नस्य तदभिन्नम् ' इति नियमात् परस्परमप्यभिन्नाविति त्रयाणामप्यैक्ये सति न केनापि रूपेण धर्मी परिणमतीति स्यात् एवमुक्तधर्माभ्यां धर्मिणोऽभिन्नत्वे धर्मप्रादुर्भाव तिरोभावतो धर्मिणोऽपि प्रादुर्भाव तिरोभावौ स्यातामिति स्थिरस्य कस्यचिदभावान्न कस्यापि परिणामित्वं सिद्धयेदित्याह एकस्माद्
"
"