________________
भनेकान्तव्यवस्थाप्रकरणम् ]
३०३ चौवाक्यवद् इत्यनुमानात् सर्वेषामेव नयानां मिथ्यादृष्टित्वे तत्ससमुदायेऽपि सम्यक्त्वं न स्यादिति चेत् १ न-अन्योन्यनिश्रितत्वेन समुदाये सम्यक्त्वसम्भवाद । आह च--
"तम्हा सव्वे वि णया, मिच्छदिट्टी सफ्क्खपडिवना (बद्धा)। अण्णुण्णणिस्सिया पुण, हवंति सम्मत्तसम्भावा"
[सम्मति० का० १ गा० २१] . सम्यक्त्वस्य-यथावस्थितप्रत्ययस्य, भावयन्तीति भावार, सन्तो भावाः सद्भावाः,अवन्ध्यकारणानीत्यर्थः; ज्ञानात्मकनयपक्षे सम्यक्त्वसद्भावाः-सम्यक्त्वस्वभावा इति वाऽर्थः।
सम्मति० का० १, गा० २१] प्रत्येकं मिथ्यावधारणानामन्यनिश्रितसमुदायेऽपि कथं सम्यक्त्वम् । इति साध्यनिर्देशः। 'स्वपक्षेणैव प्रतिहतत्वाद् ' इति हेतुः। 'चौरवाक्यवद्' इति दृष्टान्तः। तत्समुदायेऽपि नयसमूहेऽपि । अन्योऽन्यनिरपेक्षाणां मिथ्यात्वेऽपि परस्परसापेक्षाणां सम्यक्त्वसम्भवादिति समाधत्ते-- नेति । अन्योऽन्यनिश्रितत्वेन अन्योऽन्यापेक्षत्वेन । उक्तार्थे सम्मतिगाथा संवादमाह- भाह चेति । " तम्हा." इति- "तस्मात् सर्वेऽपि नया मिथ्यादृष्टयः स्वपक्षप्रतिबद्धाः। अन्योऽन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वसद्भावाः [स्वभावाः]" ॥ इति संस्कृतम् । 'सम्यक्त्वसद्भावाः' इति विवृणोति- सम्यक्त्वस्येति- 'यथावस्थितप्रत्ययस्यावन्ध्यकारणानि' इति 'सम्यक्त्वसद्भावाः' इत्यस्यार्थः शब्दस्वरूपनयपक्षे । ज्ञानस्वरूपनयपक्षे तस्यार्थान्तरमुपदर्शयति- ज्ञानात्मकनयपक्ष इति। एतद्विषये सम्मतिवृत्तिकृतोऽभिप्रायस्यावतारणाय शङ्कतेप्रत्येकमिति । सम्यक्त्वासम्भवे हेतुमुपदर्शति- स्वगोवरापरित्यागेनेति ।