________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २४३ " यन्मनसा न मनुते." [ केनोपनिषद्, १, ५ ] इत्यनयोरविरोधः, वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वप्रतिषेधात् , तदुक्तम्"फलव्याप्यत्वमेवास्य, शास्त्रकृद्भिर्निवारितम्" ॥
[पञ्चदशीतृप्तिदी० ९३ ] 'बिम्बितचैतन्यतादात्म्यत इति “यन्मनसा न मनुते" इत्ययुपपद्यत इति ‘मनसैवाऽनुद्रष्टव्यम्' इत्यनेन वृत्तिन्याप्यत्वं ब्रह्मणोऽङ्गी. क्रियते, “यन्मनसा न मनुते' इत्यनेन च वृत्तिप्रतिविम्वितचैतन्य तादात्म्याध्यासतोऽवभासनलक्षण फलव्याप्यत्वमस्य प्रतिषिध्यत इति नाऽनयोर्विरोध इत्याह-वृत्तिव्याप्यत्वेति । ब्रह्मणो वृत्तिव्याप्यत्वं समस्ति, फलव्याप्यत्वं च नास्तीत्यत्र पञ्चदशीयतृप्तिदीपप्रकरणवचनसंवादमाह-तदुक्तमिति । अत्र त्रीणि पद्यानि एव पठितानि सन्ति
'स्वप्रकाशोऽपि साक्ष्येव, धीवृत्त्या व्याप्येतान्यवत् । फलव्याप्यत्वमेवास्य, शास्त्रकृद्भिनिवारितम् ॥९॥ बुद्धि-तत्स्थचिदाभासौ, द्वावपि व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥९१ ॥ ब्रह्मण्यज्ञाननाशाय, वृत्तिव्याप्तिरपेक्षिता। स्वयं स्फुरणरूपत्वान्नाभास उपयुज्यते" ॥९२॥ इति ।
एतेषां पद्यानामित्थं व्याख्यानम्-ननु केवलस्य प्रत्यगात्मनः स्वप्रकाशत्वाद् , बुद्धिवृत्तिविषयत्वं न घटत इत्याशङ्कयाह- स्वप्रकाश इति । अन्यवद् घटादिवदित्यर्थः । स्वप्रकाशोऽहमित्येवंबुद्धिवृत्तिसम्भवादिति भावः, तर्हि अपसिद्धान्तापात इत्याशङ्कय पूर्वाचार्यैरपि वृत्तिव्याप्यत्वस्याङ्गीकृतत्वान्नायमपसिद्धान्त इति परिहरति-फलव्याप्यत्वमिति- फलं वृत्तिप्रतिबिम्बितचिदाभासः, तद्व्याप्यत्वमेवास्य प्रत्यगात्मनो निराकृतं स्वस्यैव स्फुरणरूपत्वादिति भावः ॥१॥
आत्मनि फलव्यप्त्यभावं दर्शयितुमनात्मनो वृत्त्या फलेन च