________________
२४२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् पटकारणतन्तुदाहे पटदाहबदखिलकारणेऽज्ञाने बाधिते तत्कार्यस्या खिलस्य बाधितत्वात् तदन्तर्भूताऽखण्डाकारकारिता चित्तवृत्तिरवि बाधिता भाति । तत्प्रतिविम्बितं चैतन्यमप्यादित्यप्रभया तदवभासनासमर्थदीपप्रभावत् स्वयंप्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानहे. तया तेनाभिभूतं सत् स्वोपाधिभूताखण्डवृत्तेर्वाधितत्वाद् दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रत्ववत् प्रत्यगभिन्नं परब्रह्ममात्रं भवति, एवं सति " मनसैवानुद्रष्टव्यम्" [बृहदारण्यकोपनिषद ४, ४, १९] पटोपादानकारणीभूततन्तुदाहे पटस्य तदुपादेयस्य दाहो भवत्येव, तथाऽखिलप्रपञ्चोपादानकारणीभूतमायालक्षणाज्ञानस्योक्तवृत्त्या बाधे मायाकार्यस्याखिलस्य जगतोऽपि बाध एव, निरुक्तवृत्तिरपि जगद. न्तर्गता स्वेनैव तदानीं बाधिता भवतीत्याह- पट कारणेति । तत्कार्यस्य ब्रह्मगताशानकार्यस्य । तदन्तर्भूता अज्ञानकार्याखिलप्रपञ्चान्तर्गता। निरुक्ताखण्डाकारवृत्तिविनिवृत्तौ तत्प्रतिविम्वितं चैतन्यमपि विनि. वर्तते. दर्पणाभावे मुखप्रतिबिम्बनिवृत्तिवत् , यथा च दर्पण-मुख प्रतिबिम्बयोनिवृत्तौ मुखमात्रमवतिष्ठते तथा निरुक्तवृत्ति-तत्प्रति. विम्वितचैतन्ययोनिवृत्तौ केवलचैतन्यस्यावस्थानमित्युपदर्शयति-तत्प्रतिबिम्बितमिति-निरुक्तवृत्तिप्रतिविम्बितमित्यर्थः । तदवभासनासमर्थेतिआदित्यप्रभावभासनासमर्थत्यर्थः । तेनाभिभूतं सत् प्रत्यगभिन्नपरब्रह्म णाऽभिभूतं सत् , अत्र 'तत्प्रतिविम्बितं चैतन्यमपि' इत्यन्वयि । स्वोपाधिभूतेति-वृत्तिप्रतिविम्वितचैतन्योपाधिभृतेत्यर्थः । भवतीतितत्प्रतिविम्बितं चैतन्यं तेनाऽभि तं सत् प्रत्यगभिन्नं परब्रह्ममा भवतीति सम्बन्धः। एवं सति अण्डाकारवृत्तिप्रतिबिम्बितचैतन्यस्य ब्रह्ममात्रत्वे सति, अखण्डाकारचित्तवृत्तेरुपगमाद् “मनलेवाऽनुद्रष्ट व्यम्" इत्युपपद्यते, अन्यस्य स्वाकारवृत्तिप्रतिबिम्बितचैतन्यतादा. म्यादवभासः, ब्रह्मणस्तु स्वयमेवावभासमानत्वम् , न तु वृत्तिप्रति.