________________
४.]
[ तत्त्वबोधिनीविवृतिविभूषितम् ताचिकत्वाव्याप्यत्वात् , संयोग-विभाग-इखत्व-दीर्घत्वादौ व्यमिचारात् । प्रतियोगिविशिष्टसंयोगादिव्यवहार एव परापेक्षा, न तु तज्ज्ञानमात्र इति चेत् १ तदिदमभावेऽपि तुल्यम् । - वस्तुतः केचिद् भावाः प्रतिनियतव्यञ्जकव्यङ्गयाः केचिन्नेस्यत्र स्वभावविशेष एव शरणम् , कर्पूर-शरावगन्धादौ तथास्वभाव
प्रतीतिविषयत्वादतात्त्विकत्व सिध्येत्, तदेव न- संयोग-विभागह्रस्वत्व-दीर्घत्वादौ तात्त्विकेऽपि परापेक्षप्रतीतिविषयत्वस्य सत्त्वेन व्यभिचारादिति प्रतिक्षिपति- नेति । संयोगादिव्यवहार एव परापेक्षा न तु संयोगादिज्ञानमात्र इति न परापेक्षप्रतीतिविषयत्वं संयोगादाविति न व्यभिचार इति शङ्कते- प्रतियोगिविशिष्टेति- घटेन सहास्य संयोगः, घटेन सहास्य विभागः, घटाद् विभक्तोऽयम् , अयमस्माद् ह्रस्वः, अयमस्माद् दीर्घ इत्येवं प्रतियोगिविशिष्टसंयोगादिव्यवहार एव प्रतियोगिघटादिज्ञानापेक्षा न तु प्रतियोग्यविशेषितसंयोगादिशान इत्यर्थः। प्रतियोगिविशिष्टाभावव्यवहार एव परापेक्षा नाभावज्ञानमात्र इति प्रकृतेऽपि वक्तुं शक्यत एवेति नाभावेऽपि परापेक्षप्रतीतिविषयत्वमिति न ततस्तस्याऽवास्तविकत्वमिति समाधत्ते- तदिदमभावेऽपि तुल्यमिति । भावेष्वपि केषाश्चित् प्रतिनियतव्यञ्जकव्यङ्ग यत्वं केषाश्चिन्नेत्येवं वैलक्षणयोगेऽपि न तुच्छत्वं केषाश्चित् केषाश्चिच्चातुच्छत्वमिति विशेषो यथा, तथा सदशा-सदशयोरप्येकस्य परापेक्षत्वमपरस्य परानपेक्षत्वमिति बैलक्षण्येऽपि न तुच्छत्वा-तुच्छत्वविशेषः, यस्य यः स्वभावः स तस्यैव नान्यस्य सतोऽपि, कधं नान्यस्य स इति न पर्यनुयोज्यम् , स्वभावस्याऽपर्यनुयोज्यत्वात् , अन्यस्यापि तत्त्वे प्रतिनियतस्वभावत्वस्यैव हानिः स्यादित्यसदंशस्य परापेक्षालक्षणस्वभावत्वेऽपि न तुच्छत्वमित्याह-वस्तुत इति। भावेषु प्रतिनियतव्यञ्जकव्यङ्ग यत्वं क्वचिद्