________________
अनेकान्तब्यवस्थाप्रकरणम् ]
[ ३९ 'अस्ति, नास्ति' इति प्रत्ययद्वैविध्यमुपजायते । एकपरिणामस्याऽप्युभयाऽऽकारप्रतीतिजनकैकशक्तिमत्वात् प्रत्ययद्वैविध्यमुपपत्स्यत इति चेत् ? न- तथाऽप्यविनिगमेनोभयपरिणामवत्व सिद्धेः । सदंशः परानपेक्षप्रतीतिविषयत्वात् तात्त्विकः, असदंशस्तु विपर्ययान्न तथेत्यस्ति विनिगमकमिति चेत् ? न- परापेक्षप्रतीतिविषयत्वस्याऽ
'नास्ति' इति प्रत्यय इत्येवं प्रत्ययद्वयमुपजायते, एवं च सिद्धम् विषयतया भावाऽभाघाद्याकारबुद्धिजनकं परिणामद्वयमिति, परिमामद्वयेन सह परिणामिनस्तादात्म्यमेव सम्बन्ध इति तत्तादात्म्यापन्नत्वमपि सिद्धम् , तदेव च जात्यन्तरत्वम् , एकस्य तद्वयमित्येकधर्मिरूपत्वमपि । वस्तुन एक एव परिणामः, तस्यैव भावाऽभावोभयाऽऽकारप्रतीतिजननैकशक्तिमत्वेन भावाऽभावाद्याकारबुद्धिजनकत्वमिति नोक्तभावाऽभावादिशबलैकरूपत्वमिति शङ्कते-एकपरिणामस्यापीति । उभयाकारेति- भावाऽभावोभयाकारेत्यर्थः। प्रत्ययद्वविध्यम् 'अस्ति, नास्ति' इति प्रत्ययद्वैविध्यम् । एकस्वभावपरिणामस्योभयाकारप्रतीतिजननैकशक्तिमत्त्वेन द्विविधप्रत्ययजनकत्वमित्यत्र विनिगमकस्य कस्यचिदभावेन ततो भावाऽभावपरिणामद्वयस्याऽपि सिद्धिः स्यादेवेति प्रतिक्षिपति- नेति । तथापि एकस्य परिणामस्योभयाकारप्रतीतिजनकैकशक्तिमत्त्वेन प्रत्ययद्वयजनकत्वस्वीकारेऽपि । अविनिगमेन विनिगमनाविरहेण। उभयपरिणामवत्त्वसिद्धः भावाऽभावोभयपरिणामत्वसिद्धेः। भावपरिणामः पारमार्थिक इति तस्योक्तशक्तिमत्त्वेन भावाभावाद्याकारप्रतीतिजनकत्वम् , अभावपरिणामस्त्वपारमार्थिक इति न तस्य तथाभाव इति विनिगमकमस्त्येवेति शङ्कते- सदंश इति । विपर्ययात् परानपेक्षप्रतीतिविषयत्वाऽभावात् । न तथा न तात्त्विकः, किन्तु अतात्त्विकः परापेक्षप्रतीतिविषयत्वं यद्यतात्विकत्वव्याप्यं स्यात् तवैवासदंशस्य परापेक्ष