________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
वादिप्रतिवादिसभ्यसभापतयश्चत्वार्य्यङ्गानि ॥१५॥ प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥ १६ ॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म्म ॥ १७ ॥
४०
वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थैरुभयाभिमताः सन्याः ॥ ॥१८॥वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारेणाग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम्, यथावसरन्तत्त्वप्रकाशनेन कथा विरमणम्, यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि ॥ १९ ॥ प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः ॥२०॥ वादिसभ्याभिहितावधारणकलहव्यपोहादिकं चास्य
कर्म्म ॥ २१ ॥ सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्तो वक्तव्यम् ॥ ॥ २२ ॥ उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत् स्फूर्त्ति च वाच्यम् ॥ २३ ॥
इति श्री देवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे वादिन्यायनिर्णयोनामाष्टमः परिच्छेदः ॥ ८ ॥