________________
२७..
प्रमामनयतत्त्वालोकालङ्कारः। कखवचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥ १ ॥ अनुमाननिराकृत्साध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरगो वा ॥ ४२ ॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनै रज-- नीभोजनं भजनीयम् ॥ ४३॥ लोकनिराकृतसाध्यधर्माविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ ४४॥ स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५ ॥ अनभीप्सितसाध्यधर्माविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति. वदतः॥ ४६॥ असिद्धविरुद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥ यस्यान्यथानुपपत्तिःप्रमाणेन न प्रतीयते सोऽसिद्धः