________________
प्रमाणनयतत्त्वालोकालङ्कारः। प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति॥ ९४ ॥ स्वभावानुपलब्धिर्यथा नास्त्यत्र भृतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्वभावस्यानुपलम्भात्॥ ॥९५॥ व्यापकानुपलब्धिर्यथा नास्त्यत्रप्रदेशे पनसः पादपानुपलब्धेः ॥ ९६ ॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कुरानवलोकनात् ॥ ९७ ॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयोभावास्तत्त्वार्थश्रद्धानाभावात् ॥ ९८ ॥ पूर्वचरानुपलब्धियथानोद्गमिष्यति मुहूर्तान्तेस्वातिनक्षत्रं चित्रोदयादर्शनात् ॥ ९९ ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभाद्रपदामुहूतत्पूर्वमुत्तरभाद्रपदोद्गमानवगमात् ॥१०॥ सहचरानुपलब्धिर्यथा नास्त्यस्यसम्यग्ज्ञानंसम्यग्दर्शनानुपलव्धेः ॥ १०१ ॥ विरुद्वानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१०२॥