________________
पं० जिनदासविरचिता
[ पृ० २३९नभःसदोधेनुपयोधराभैः नभसि सोदन्ति इति नभः सदसः देवाः तेषां धेनुः कामधेनुरित्यर्थः तस्याः पयोधराभैः पयसां धराः पयोधराः स्तना: तेषामिव आभा शोभा येषां ते पयोधराभाः तैः ||५४७॥ इति चतुःकोणकलश (भिषेकः । मन्त्रः - ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः असि आ उ सा नमोऽर्हते भगवते मङ्गललोकोत्तमशरणा कोणकलशाभिषेकं करोमि नमोऽर्हते स्वाहा । गन्धोदकाभिषेकः लक्ष्मीकल्पलते इति — त्रैलोक्य प्रमदाहै : लोकत्रयं प्रति प्रमदं आह्लादम् आवहन्ति आनयन्ति इति त्रैलोक्यप्रमदावहाः तैः लोकत्रयाह्लादकैः गन्धोदकैः । जिनपतेः स्नापनात् अभिषेचनात् लक्ष्मोकल्पलते त्वं जनानन्दैः लोकाह्लादरूपैः परम् उत्तमं यथा स्यात्तथा पल्लवैः किसलयैः समुल्लस भूषिता भव । तथा हे धर्माराम, श्रीजिनोक्तः उत्तमक्षमादिरूपः धर्म एव आराम: कृत्रिमम् उपवनं तस्य संबोधनैकवचनं हे धर्माराम, फलैः प्रकामसुभगस्त्वं भव्यसेव्यो भव प्रकामं नितरां सुभगः सुन्दरः त्वं भव्यसेव्यो भव्यजनैराराध्यः भव । हे बोधाधीश हे ज्ञानपते, आत्मन् त्वं संप्रति अधुना मुहुः पुनः दुष्कर्माणि मादीनि ततो जातः धर्मक्लमः संतापक्लान्तिः तं विमुञ्च परित्यज । यतः लोकत्रयानन्ददायको जिनपतेः गन्धोदकरभिषेको जातः ||५४८॥ [ गन्धोदकाभिषेकमन्त्रः - ॐ नमोऽर्हते भगवते प्रक्षीणाशेषदोषकल्मषाय दिव्यतेजोमूर्तये नमः श्रीशान्तिनाथाय शान्तिकराय सर्वविघ्नप्रणाशनाय सर्वरोगापमृत्युविनाशनाय सर्वपरकृतक्षुद्रोपद्रव विनाशनाय सर्वश्याम डामर विनाशनाय, ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः असि आ उ सा नमः मम सर्वशान्ति कुरु मम सर्वपुष्टि कुरु स्वाहा स्वधा । ] आत्मपवित्रीकरणम् । शुद्धैरिति – विशुद्धबोधस्य निर्मलकेवलज्ञानिनः जिनेशस्य शुद्धः निर्मलैः उत्तरोदकैः तडागाद्यानीतः गन्धोदकाभिषेकानन्तरं केवलजलैः उत्तरोत्तरसंपदे उत्तम उत्तमतर उत्तमतमसंपत्त्याप्तये अवभृथस्नानम् अभिषेकावसानस्नानं करोमि || ५४९ ॥ । [ तन्मन्त्रः- ॐ नमोऽर्हत्परमेष्ठिभ्यः मम सर्वशान्तिर्भवतु स्वाहा । स्वमस्तके गन्धोदकप्रक्षेपणम् ।] अधुना जिनपूजने जिनस्याह्वानविधानं क्रियते तद्यथा - अमृतेति — अस्य पद्यस्याभिप्रायो यथार्थतया न ज्ञायते परम् अस्मिन् पद्ये अर्हत्परमेष्ठिनं कमले संस्थाप्य विधिनाहं तं पूजये इत्युपासकः कथयति । अहं त्रिभुवनवरदं त्रैलोक्यस्थितभव्येभ्योऽभीष्टफलदं जिनं विधिना आगमोक्तपूजाप्रकारेण पूजयेयं यजेय । कथं पूजयेयं कमले संस्थाप्य । कथंभूते कमले कलादले कला एव दलं यस्य तस्मिन् । पुनः कथंभूते निजाङ्कबीजे निजस्य चन्द्रस्य अङ्कः लक्ष्म तदेव बीजं यस्य तस्मिन् । पुनः कथंभूते अमृतकृतकणिके अमृतेन प्रकारेण कृता कणिका कमलकोषो यस्य तस्मिन् । अमृतेन प्रकारेण कणिका क्रियते तन्मध्ये स्वकीयं नाम निक्षिप्यते, कलादले षोडशदलेषु अकारादयः स्वरा लिख्यन्ते ॥ ५५० ॥ [ मन्त्रः- ॐ ह्रीं ध्य। तृभिरभीप्सितफलदेभ्यः स्वाहा । इति पुष्पाञ्जलिः ।] जलपूजनम् पुण्योपार्जनशरणमिति - अहं पुरुदेवं तोयेन पूजयामि इति संबन्धः । कथंभूतं पुरुदेवम् । पुण्योपार्जनशरणं पुण्यप्राप्तेः शरणं गृहम् । पुराणपुरुषं पुराणश्चिरंतनः पुरुषः आत्मा यस्य तम् । स्तवेति - स्तवस्य गुणस्तुतेः उचितम् आचरणं महाव्रतादिकं यस्य तम् । पुनः कथंभूतम् । पुरुहूतविहितसेवम्- पुरुहूतेन इन्द्रेण विहिता कृता सेवा यस्य तं पुरुदेवं पुरुर्महान्, इन्द्रादीनामाराध्यः देवः पुरुदेवस्तम् जिनराजं पूजयामि तोयेन जलेन ॥५५१ ॥
।
मन्देति- - मन्दः प्रचुरः मदो
[ मन्त्रः- ॐ ह्रीं अर्हन् नमः परमेष्ठिभ्यः स्वाहा । जलम् । चन्दनपूजनम् गर्व:, मदनः कामः एतौ दमयति इति दमनस्तम् । पुनः कथंभूतं जिनम् । मन्दरेति - -- मन्दरः सुमेरुः स चासो गिरिश्च तस्य शिखरे शृङ्गे मज्जनावसरे स्नानसमये, पुनः कथंभूतं जिनम् । उमेति — उमा लक्ष्मीः अभ्युदयनिःश्रेयसरूपा सा कीर्तिश्च एव लतिका वल्ली तस्याः कन्दम् उत्पत्त्याधारम्, जिनं चन्दनचर्चाचितं कुर्वे ।।५५२।। [ मन्त्रः- ॐ ह्रीं अर्हन् नमः परात्मकेभ्यः स्वाहा गन्धम् । ] तण्डुलपूजा । अवमेति - अवमानि निन्द्यकार्याणि दोषा वा तान्येव तरवः वृक्षास्तेषां गहनं वनं तस्य दहनम् अग्निम् जिनम् । पुनः कथंभूतम् । निकामेति — निकामम् अत्यर्थं सुखं तस्य संभवे उत्पत्ती अमृतस्थानम् मोक्षस्थानमिव पुनः कथंभूतम् । आगमदीपालोकम् आगम एव दीपः तस्य आलोकमिव प्रकाशमिव जिनं कलम भवैः शाल्युत्पन्नः तण्डुलैः यजामि ।।५५३।। [ मन्त्रः—ॐ ह्रीं अर्हन् नमोऽनादिनिधनेभ्यः स्वाहा । अक्षतान् ] पुष्पपूजा । स्मरेतिकुसुमशरैः जिननाथम् अर्चयामि । कथंभूतं जिनम् । स्मररसेन शृङ्गाररसेन विमुक्ता रहिता सूक्तिः वचनम् उपदेश: यस्य सः तम् । विज्ञानेति - विज्ञानं केवलज्ञानम् एव समुद्रः तेन मुद्रितं व्याप्तम् अशेषं वस्तु
४७२