________________
સર્વ વિશુદ્ધ શાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા - ૩૬-૩૭૧ दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतने कर्मणि । तस्मात्किं हंति चेतयिता तेषु कर्मसु ॥३६७॥ दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतनेषु काये । तस्मात्किं हंति चेतयिता तेषु कायेषु ॥३६८॥ ज्ञानस्य दर्शनस्य भणितो घातस्तथा चरित्रस्य ।। नापि तत्र पुद्गलद्रव्यस्य कोऽपि घातस्तु निर्दिष्टः ॥३६९॥ जीवस्य ये गुणाः केचिन्न संति खलु ते परेषु द्रव्येषु । तस्मात्सम्यग्दृष्टे नास्ति रागस्तु विषयेषु ॥३७०॥ रागो द्वेषो मोहो जीवस्यैव चानन्यपरिणामाः ।
एतेन कारणेन तु शब्दादिषु न संति रागादयः ॥३७१॥ यद्धि यत्र भवति
यत्तु यत्र न भवति तत्तद्धाते हन्यत एव
तत्तद्घाते न हन्यते यथा प्रदीपघाते प्रकाशो हन्यते ।
यथा घटप्रदीपघाते घटो न हन्यते । यत्र च यद् भवति
यत्र च यन्न न भवति तत्तद्घाते हन्यते एव
तत्तद्घाते न हन्यते यथा प्रकाशघाते प्रदीपो हन्यते ।
यथा घटघाते घटप्रदीपो न हन्यते । तथात्मनो धर्मा ज्ञानदर्शनारित्राणि न च दर्शनज्ञानचारित्राणां घातेऽपि पुद्गलद्रव्यघातेऽपि न हन्यते,
पुद्गलद्रव्यं हन्यते ।
एवं दर्शनज्ञानचारित्राणि पुद्गलद्रव्ये न भवतीत्यायाति अन्यथा तद्घाते पुद्गलद्रव्यघातस्य पुद्गलद्रव्यघाते तद्घातस्य दुर्निवारत्वात् यदि एवं ततो ये यावंतः केचनापि जीवगुणा - स्ते सर्वेऽपि परद्रव्येषु न संतीति सम्यक् पश्यामः । अन्यथा अत्रापि जीवगुणघाते पुद्गलद्रव्यघातस्य पुद्गलद्रव्यघाते जीवगुणघातस्य च दुर्निवारत्वात् । यद्येवं तर्हि कुतः सम्यग्दृष्टे भवति रागो विषयेषु ? न कुतोऽपि । तर्हि रागस्य कतरा खानि ? रागद्वेषमोहा हि जीवस्यैवाज्ञानमयाः परिणामाः ततः परद्रव्यत्वाद् विषयेषु न संति, अज्ञानाभावात्सम्यग्दृष्टौ तु न भवंति । एवं ते विषयेष्वसंतः सम्यग्दृष्टेन भवंतो न भवंत्येव ।।३६६-३७१।।
599