________________
४६८
षड्दर्शन समुझय भाग- २, श्लोक, ४८-४९, जैनदर्शन
કોઈકની સાથેના સંયોગમાત્રનો જ તમારાવડે નિષેધ કરવો જોઈએ. (સર્વથા નહિ.) અર્થાત્ “આ શરીરમાં આત્મા નથી” આ પ્રયોગમાં આ વિવક્ષિતશરીરમાં જ આત્માના સંયોગનો નિષેધ કરાયો છે, પરંતુ આત્માનો સર્વથા અન્યત્ર બીજાશરીરોમાં નિષેધ કરાયો નથી. ___ अत्राह कश्चित्-ननु यदि यन्निषिध्यते तदस्ति, तर्हि मम त्रिलोकेश्वरताप्यस्तु, युष्मदादिभिर्निषिध्यमानत्वात् । तथा चतुर्णां संयोगादिप्रतिषेधानां पञ्चमोऽपि प्रतिषेधप्रकारोऽस्ति, त्वयैव निषिध्यमानत्वात्, तदयुक्तम् । त्रिलोकेश्वरताविशेषमात्रं भवतो निषिध्यते यथा घटप्रमाणत्वं मुक्तानां न तु सर्वथेश्वरता, स्वशिष्यादीवरतायास्तवापि विद्यमानत्वात् । तथा प्रतिषेधस्यापि पञ्चसंख्याविशिष्टत्वमविद्यमानमेव निर्वार्यते न तु सर्वथा प्रतिषेधस्याभावचतुःसंख्याविशिष्टस्य सद्भावात् । ननु सर्वमप्यसंबद्धमिदम् । तथाहि - मत्रिलोकेश्वरत्वं तावदसदेव निषिध्यते, प्रतिषेधस्यापि पञ्चसंख्याविशिष्टत्वमप्यविद्यमानमेव निवार्यते । तथा संयोगसमवायसामान्यविशेषाणामपि गृहदेवदत्तखरविषाणादिष्वसतामेव प्रतिषेध इति । अतो यनिषिध्यते तदस्त्येवेत्येतत्कथं न प्लवत इति ? अत्रोच्यते-देवदत्तादीनां संयोगादयो गृहादिष्वेवासंतो निषिध्यन्ते । अर्थान्तरे तु तेषां ते सन्त्येव । तथाहि-गृहेणैव सह देवदत्तस्य संयोगो न विद्यते, अर्थान्तरेण त्वारामादिना वर्तत एव । गृहस्यापि देवदत्तेन सह संयोगो नास्ति, खट्वादिना तु विद्यत एव । एवं विषाणस्यापि खर एव समवायः नास्ति, गवादावस्त्येव । सामान्यमपि द्वितीयचन्द्राभावश्चन्द्र एव नास्ति, अर्थांतरे तु घटादावस्त्येव । घटप्रमाणत्वमपि मुक्तासु नास्ति, अन्यत्र विद्यत एव । त्रिलोकेश्वरतापि भवत एव नास्ति, तीर्थकरादावस्त्येव । पञ्चसंख्याविशिष्टत्वमपि प्रतिषेधप्रकारेषु नास्ति, अनुत्तरविमानादावस्त्येवेत्यनया विवक्षया ब्रूमः यन्निषिध्यते तत्सामान्येन विद्यत एव । नत्वेवं प्रतिजानीमहे यद्यत्र निषिध्यते तत्तत्रैवास्तीति येन व्यभिचारः स्यात्, एवं सत एव जीवस्य यत्र क्वापि निषेधः स्यान्न पुनः सर्वत्रेति । तथास्ति देहेन्द्रियातिरिक्त आत्मा, इन्दियोपरमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत्, इति सिद्धमनुमानग्राह्य आत्मेति । ટકાનો ભાવાનુવાદ:
शंst : d तमे “ठन निषेध ४२।५ ते (अन्यत्र) होय छे."-20j sो छौ, तो भने ‘ત્રિલોકનાથતા પ્રાપ્ત થાઓ, કારણકે તમારાવડે મારામાં તેનો નિષેધ કરાયો છે.