________________
षड्दर्शन समुझय, भाग - २, परिशिष्ट-३ अवचूर्णि - लोकायत-नास्तिकमत
[लोकायत-नास्तिकमत लोकायिता नास्तिका एवममुना प्रकारेण वदन्ति - देवः सर्वज्ञादिः निर्वृतिर्मोक्षः, धर्मश्च अधर्मश्च द्वन्द्वः, पुण्यपापयोः फलं स्वर्गनरकादिकं च नास्ति । धर्माधर्माभावे कौतस्कुतं तत्फलम् ।।८०।।
तन्मते लोकायि[य]तमते अयं लोकः संसारः एतावन्मात्र एव यावन्मात्र इन्द्रियगोचरः । इन्द्रियं पञ्चविधम्, तस्य गोचरो विषयः, पचेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरम् । लोकग्रहणात् लोकस्थपदार्थग्रहः । अपरे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः । तदप्रमाणे प्रत्यक्षाभावादेव । अप्रत्यक्षमपि चेन्मतम्; तदा शशश्रृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । दृष्टान्तमाह - यथा कश्चित्पुरुषो वृकपददर्शनकुतूहलां दयितां समीरणसमी-कृतपांशुप्रकरे कराङ्गुल्या वृकपदाकारं विधाय मुग्धामवादीत् - भद्रे वृकपदं पश्य । तथा परवञ्चनप्रवणा मायाधार्मिका स्वर्गादिप्राप्तये तपश्चरणाद्युपदेशेन मुग्धजनं प्रतारयन्ति ।।८१।।
परमार्थवेदिन इदं वाक्यम्-यदतीतं यौवनादि तन्न ते । किन्तु जराजीर्णत्वादि भावि । हे भीरु, गतम् इह भवातिक्रान्तं सुखयौवनादि परलोके न ढौकते भूतानां समुदयो मेल:[ऽन्तः] तन्मात्रम्, केवलं [कलेवरं] भूतचतुष्टयाङ्क[धिक]स्याभावान्न च पूर्वभवादिसंबन्धः शुभाशुभकर्मजन्यान्यः] ।।८२।।
पृथ्वी जलमिति, पृथ्वी भूमि, जलमापः, तेजो वह्निः, वायुः पवन: एतानि चत्वारि भूतानि एतेषामाधारोऽधिकरणभूमिः भूतानि संभूय एकं चैतन्यं जनयन्ति । एतन्मते प्रमाणम्, प्रत्यक्षमेव एकं प्रमाणं न पुनरनुमानादिकम् । हि शब्दोऽत्र विशेषार्थो वर्तते । विशेष: पुनश्चार्वाकैः लोकयात्रानिर्वाहणप्रवणं धूमाद्यनुमानमिष्यते । क्वचन, न पुनः स्वर्गादृष्टादिप्रसाधकमलौकिक-मनुमानमिति । चैतन्यमाह । पूर्वार्धं सुगमम् । एतेषां चार्वाकाणां चेतनोत्पत्तिकारणं भूतचतुष्टयम् । चत्वार्यपि संभूय चैतन्यमुत्पादयन्ति । तु पुनः । मतिं प्रमाणम् अक्षमेव ।।८३।।
ननु भूतचतुष्टयसंयोगेऽपि[गे]कथं चैतन्योत्पत्तिरित्याह-पृथिव्यादिचतुर्भूतानां संहतौ मेले सति । तथेत्युपदर्शने । देहादिसंभवः । आदिशब्दाद् भूधरादिपदार्था अपि । यथा येन प्रकारेण सुराङ्गेभ्यो गुडघातक्यादिभ्यो मद्य[द]शक्ति: उन्मादकत्वं भवति[तीति तथा भूतचतुष्टयसंबन्धाच्छरीरं आत्मनः स्थिता चे(सचे) तनता ।।८४ ।।
तस्मादिति पूर्वोक्तानुस्मरणपूर्वकं दृष्टपरित्यागात् प्रत्यक्षसुखत्यागात् अदृष्टे [तपश्चरणादि-कष्टे] प्रवृत्तिः । च: समुच्चये । तल्लोकस्य विमूढत्वं चार्वाकाः प्रतिपेदिरे । प्रतज्ञाततः [तवन्तः] ।।८५।।
साध्यस्य मनीषितस्य कस्यचिद्वस्तुनो वृत्तिः प्राप्तिः अनभीष्टस्य निवृत्तिरभावः ताभ्यां जन या प्रीतिरुत्पद्यते सा तेषां चार्वाकाणां निरर्था । श्रेण्या [निरर्थका । शून्या] पूर्वभवार्जितपुण्यपापाभावाभि एव] । सा च प्रीतिराकाशरूपा शून्येत्यर्थः । धर्मस्य कामादन्यस्याभावात् ।।८६।। __एवं लौकायितमतसंक्षेपः कथितः । एतं षड्दर्शन[नोत्पन्न]विकल्पे सति अभिधेयतात्पर्यार्थः मुक्त्यङ्गतत्त्व-सारार्थ:[र्यतातत्त्वमारार्थः] चिन्तनीयः बुद्धिमद्भिः ।।८७।।
।। इति षड्दर्शनसमुचयावचूर्णिः समाप्ता ।।