________________
८८४
षड्दर्शन समुश्चय, भाग - २, परिशिष्ट - ३ अवचूणि - जैमिनिमतमीमांसकमत
-
समुपयोगार्थः । तत्राद्यानि पञ्चैव प्रमाणानीति प्रभाकरोऽभावस्य प्रत्यक्षेणैव ग्राह्यतान्नन्य-मानोऽभिमन्यते षडपि तानि ते भट्टो भाषते । अथ प्रत्यक्षप्रमाणस्य क्षणमाचष्टे । तत्र प्रमाणषट्कम् अक्षाणामिन्द्रियाणां वेदोक्तस्वर्गसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदना तामाहुः दृष्टान्ते न स्पष्टयति ।।७१।।।
प्रमाणान्याह । जैमिनेः षट्प्रमाणानि ज्ञेयानि, यद्यपि प्रभाकाराणां मते पञ्च; भाट्टानां षटः, तथापि ग्रन्थकृत् सामान्यतः षट्संख्यामाचष्टे । प्रमाणामानि निगदप्रसिद्धान्येव ।।७२।।
तत्र प्रमाणषट्के अक्षाणामिन्द्रियाणां प्रयोगे पदाथैः सह संयोगे यथा[या] बुद्धिरिदमिदमित्यवबोध: तत्प्रत्यक्षम् । सत्तामदुष्टेन्द्रियाणामिति । एतावता मरुमरीचिकाजलवत् [कायां जलभ्रमः] शुक्तौ रजतभ्रमश्च इन्द्रियार्थसंप्रयोगेऽपि द्रष्टुरविकलेन्द्रियत्वाभावान प्रत्यक्षं प्रमाणम् । आत्मा यदनुमीयते [यदनुमिमीते] स्वयं तदनुमानमित्यर्थः । लिङ्गाज्जातं लैङ्गिकम् । व्युत्पत्तिभेदानेदः । उभयशब्दकथनं बालावबोधार्थम् ।।७३।। ___ शब्दमागमप्रमाणं शाश्वताद्वेदाज्जातम्, वेदानां च शाश्वतत्वम्, अपौरुषेयत्वादेव । यत्प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधर्म्यात् [साहार्यात्] अप्रसिद्धस्य वस्तुनः साधनं तदुपमानं यथा प्रसिद्धगौगवयस्वरूपो वनेचरः अप्रसिद्धगवयस्वरूपं नागरकं प्राह यथा गौर्गवयस्तथा । अत्र सूत्रानुक्तावपि यत्तदावर्थसंबन्धादध्याहायौ ।।७४।।
यद्वलेन कस्याप्यदृष्टस्य कल्पना संघटना विधीयते । दृष्टः परिचितः प्रत्यक्षलक्ष्योऽर्थः देवदत्ते पीनत्वादिः तस्यानुपपत्त्याघटमानतया अन्यथानुपपनेत्यर्थः यथा पीनो देवदत्तो दिवा न भुङ्क्ते रात्राववश्यं भुङ्क्त इत्यर्थापत्तिः प्रमाणम् ।।७५।। ___ यत्र वस्तुरूपेऽभावादौ पदार्थे पूर्वोक्तप्रमाणपञ्चकं न वर्तते तत्राभावप्रमाणता ज्ञेया । किमर्थम् । वस्त्वसत्ताव[स्तुसत्यव]बोधार्थम्, वस्तुनो भावस्वरूपस्य मुण्डभूतलादेः सत्ता घटाद्यभावः(व:)सद्भावः तस्यावबोधः प्रामाणिकतयात[प]थावतरणं(तावतरणं) तदर्थं तद्धेतोः । ननु अभावस्य कथं प्रामाण्यम् । प्रत्यक्षं तावद् भूतलमेवेदं घटादि न भवतीति अन्वयद्वारेण [अन्वयव्यतिरेकेण द्वारेण] वस्तुपरिच्छेदः, तदधिकमभावैकरूपं निराचष्टे । नैवं घटाभावप्रतिबद्धभूतलग्रहणासिद्धेः नास्तिताग्रहणावसरे प्रामाण्यमेव भावस्य मानसोत्पन्नम् ।।७६।।।
उपसंहरन्नाह । अपिशब्दात् केवलमपरदर्शनानां जैमिनीयमतस्यापि कथितः । वक्तव्यस्य बाहुल्या[बहुत्वा]ट्टीकामात्रे सामस्त्यकथनायोगात् । एवमा मित्थमा]स्तिकवादिनाम् इह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्धनैयायिकसांख्यजैन-वैशेषिकजैमिनीयानां संक्षेपकीर्तनं कृतम् ।।७७।।।
विशेषान्तरमाह । अन्ये आचार्याः नैयायिकमताद् वैशेषिकैः सह भेदं न मन्यन्ते । दर्शनाधिष्ठात्रैकदैवतत्वात् । पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव । दर्शनानां षट्संख्या कथं फलवतीत्याह ।।७८ ।। ___ तन्मते नैयायिकवैशेषिकाभेदमन्यमानकाचार्यमते षट्दर्शनसंख्या लोकायितमतक्षेपात् पूर्यते । तु पुनरर्थे । किलेत्याम्नाये । तेन कारणेन तन्मतं चार्वाकमतं कथ्यते ।।७९।।