________________
८६०
दर्शन समुझ, भाग - २, परिशिष्ट २ लघुवृत्ति जैनमत
ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तैर्हि । तस्मात्तज्जीवत्वं हि नित्यं सर्वस्य जीवस्य ।।" [
सङ्गतं देहवियोगान्मोक्षः, आदिशब्दाद्देहेन्द्रियधर्मविरहोऽपीति पद्यार्थः ।
एवं नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह -
एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥ ५३ ॥
-
तथा -
एतानि पूर्वोक्तानि तत्र जिनमते, तत्त्वानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन मनुते । एतावता जानन्नपि अश्रद्दधानो मिथ्यादृगेव । यथोक्तं श्रीगन्धहस्तिमहातकें- " द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्या" [ ] इति । तस्य दृढमानसस्य सम्यक्त्वज्ञानयोगेन चारित्रयोग्यता चारित्रार्हता । सम्यक्त्वज्ञानयोगेनेति । सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन । ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक् चारित्रव्यवच्छेदार्थं सम्यक्त्वज्ञानग्रहणमिति ।
फलमाह
तथाभव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् ।।५४।।
] इति ।
तथेत्युपदर्शने । भव्यत्वपाकेन परिपक्वभव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति । भव्यत्वस्य परिपाकेन यस्य पुंसः स्त्रियो एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत् । यत्तदोर्नित्याभिसंबन्धात् सोऽनुक्तोऽपि संबध्यत इति । स पुमान्मोक्षभाजनं जायते निर्वाणश्रियं भुङ्क इत्यर्थः । कस्मात् सम्यग्ज्ञानक्रियायोगात् । सम्यगिति । सम्यक्त्वं दर्शनं ज्ञानमागमावबोधः क्रिया च चरणकरणात्मिकास्तासां योगः संबन्धस्तस्मात् । न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षहेतुकम् । यदाहुर्भद्रबाहुस्वामिपादाः -
"सुबहु पि सुयमहीयं किं काही चरणविप्प मुक्कस्स । अन्धस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥
"नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहीणं । संजमहीणं च तवं जो चरइ निरत्थयं तस्स ।।"
·
प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ।। ५५ ।।
दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि । यदुवाच वाचकमुख्यः- “दर्शनज्ञानचारित्राणि मोक्षमार्ग: (त० सू० १/१ ) इति ।
प्रमाणे आह