________________
षड्दर्शन समुशय, भाग-२, परिशिष्ट - २ लघुवृत्ति - जैनमत
यस्तैमिथ्यादर्शनादिभिर्बन्धः स कर्मबन्धः स जिनशासन आस्रवो विज्ञेयः, आस्रवतत्त्वं ज्ञेयमित्यर्थः । तत्प्रकृतयश्च द्वाचत्वारिंशत् । तथा हि - पञ्चेन्द्रियाणि, चत्वारः कषायाः, पञ्च [अ] व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिक्यादय, इत्यास्रवः ।
संवरस्तनिरोधस्तु बन्धो जीवस्य कर्मणः ।
अन्योन्यानुगमात्कर्मसंबन्धो यो द्वयोरपि ।।५१।। तु पुनस्तन्निरोध आस्रवद्वारप्रतिरोधः संवरः तत्त्वम्। संवरप्रकृतयस्तु सप्तपञ्चाशत्तद्यथा -
"समिइगुत्तिपरीसहजइधम्मभावणाचरित्ताणि ।
पणतिगदुवीसदसबार पञ्चभेएहिं सगवण्णा ।।" पञ्च समितयस्तिस्रो गुप्तयो द्वाविंशतिः परीषहा दशविधो यतिधर्मः द्वादश भावनाः पञ्च चारित्राणीति प्रकृतयः । बन्धो नाम जीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यानुगमात् परस्परं क्षीरनीरन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः संबन्धः संयोगः स बन्धो नाम तत्त्वमित्यर्थः । स च चतुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात् ।
"स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् ।
अनुभागो रसो ज्ञेयः प्रदेशो दलसंचयः ।।"[ ] इति । इत्यादिः स बन्धो ज्ञेयः । निर्जरामोक्षौ चाह -
बद्धस्य कर्मण: शाटो यस्तु सा निर्जरा मता ।
आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ।।५२।। यः पुनर्बद्धस्य स्पृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाट: कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति । सा पुनर्द्विविधा, सकामाकामभेदेन । तु पुनदेहादेरात्यन्तिको वियोगो मोक्ष उच्यते । स च नवविधो यथा -
"संतपयपरूवणया दव्वपमाणं च खित्तफुसणा य ।
कालो य अंतरं भागो भावो अप्पाबहुं चेव ।।" [ ] इति । नवप्रकारो हि करणीयः । बाह्यप्राणानामात्यन्तिकापुन वित्वेनाभावः शिव इत्यर्थः । ननु सर्वथा प्राणाभावादजीवत्व-प्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वात् मोक्षतत्त्वाभाव इति चेत्, न; मोक्षे हि द्रव्यप्राणानामेवाभावः । भावप्राणास्तु नैष्कर्मिकावस्थायामपि सन्त्येव । यदुक्तम् -
"यस्मात्क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानेः । . आत्यन्तिकः सयुक्तो निर्द्वन्द्वेनापि च सुखेन ।।