________________
८१६
षड्दर्शन समुझय, भाग - २, परिशिष्ट - १
चैतन्यलक्षणो जीवः, स्यादजीवस्ततोऽन्यथा । सत्कर्मपुद्गलाः पुण्यं, पापं दुष्कर्मपुद्गलाः ।।१३।। कषाया विषया योगा, इत्याद्या आश्रवा मताः । आश्रवाद्विरमणं यत्, तत् संवर इति स्मृतः ।।१४।। शुभाशुभानां ग्रहणं, कर्मणां बन्य इष्यते । पूर्वोपार्जितकर्माघजरणं निर्जरा स्मृता ।।१५।। कर्मक्षयेण जीवस्य, स्वस्वरूपस्थितिः शिवम् । एषां नवानां श्रद्धाने, चारित्रात् तत्तु लभ्यते ।।१६।। श्वेताम्बरा वन्द्यमाना, धर्मलाभं प्रचक्षते । शुद्धां माधुकरी वृत्ति, सेवन्ते भोजनादिषु ।।१७।। ख्याता: प्रमाणमीमांसा, प्रमाणोक्तिसमुञ्चयः । नयचक्रवालतर्कः स्याद्वादकलिका तथा ।।१८।। प्रमेयपद्ममार्तण्डस्तत्त्वार्थः सर्वसाधनः । धर्मसंग्रहणीत्यादि, तर्काघा जिनशासने ।।१९।। युग्मम् । जैने मते उभौ पक्षी, श्वेताम्बरो दिगम्बरः । श्वेताम्बरः पुरा प्रोक्तः, कथ्यतेऽथ दिगम्बरः ।।२०।। दिगम्बराणां चत्वारो, भेदा नान्यव्रतस्पृशः । काष्ठासङ्गो मूलसङ्गः, सङ्गो माथुरगोप्यो ।।२१।। पिच्छिका चमरीवालेः काष्ठासङ्गे प्रतिष्ठिता । मूलसङ्गे मयुराणां, पिच्छेर्भवति पिच्छिका ।।२२।। पिच्छिका माथुरे सङ्घ, मूलादपि हि नादृता । मयूरपिच्छिका गोप्याः, धर्मलाभं भणन्ति ते ।।२३।। धर्मवृद्धिगिरः शेषाः, गोप्याः स्त्रीमुक्तिभाषिणः । गोप्यादन्ये त्रयः सङ्घाः, प्राहु नो निर्वृतिं स्त्रियाः ।।२४।। शेषास्त्रयश्चगोप्याश्च, केवलि(जिन)भुक्तिं न मन्वते । नास्ति चीवरयुक्तस्य, निर्वाणं सव्रतेऽपि हि ।।२५।। द्वात्रिंशदन्तरायाः स्युर्मलाश्चैव चतुर्दश । भिक्षाऽटने भवन्त्येषां, वर्जनीयास्तदागमे ।।२६।।