________________
७९२
षड्दर्शन समुश्चय भाग- २, श्लोक - ७६, मीमांसकदर्शन
व्यापिपर्ति । वस्तुरूपं द्वधा, सदसद्रूपभेदात् । अतो द्वयो रूपयोरेकतरव्यक्तये प्राह“वस्तुसत्ता” इत्यादि । वस्तुनो-घटादेः सत्ता-सद्रूपता सदंश इति यावत्, तस्या अवबोधार्थं सदंशो हि प्रत्यक्षादिपञ्चकस्य विषयः, स चेत्तेन न गृह्यते, तदा तत्र वस्तुरूपे शेषस्यासदंशस्य ग्रहणायाभावस्य प्रमाणतेति । “वस्त्वसत्तावबोधार्थ" इति क्वचित्पाठान्तरम् । तत्रायमर्थः-प्रमाणपञ्चकं यत्र वस्तुनो रूपे न व्याप्रियते, तत्र वस्तुनो याऽसत्ता-असदंशः, तदवबोधार्थमभावस्य प्रमाणतेति । अनेन च त्रिविधेनैकविधेन वाभावप्रमाणेन प्रदेशादौ घटाभावो गम्यते न च प्रत्यक्षेणैवाभावोऽवसीयते, तस्याभावविषयत्वविरोधात्, भावांशेनैवेन्द्रियाणां संयोगात् । अथ घटानुपलब्ध्या प्रदेशे धर्मिणि घटाभावः साध्यत इत्यनुमानग्राह्योऽभाव इति चेत्, न, साध्यसाधनयोः कस्यचित्संबन्धस्याभावात् । तस्मादभावोऽपि प्रमाणान्तरमेव । अभावश्च प्रागभावादिभेदभिन्नो वस्तुरूपोऽभ्युपगन्तव्यः, अन्यथा कारणादिव्यवहारस्य लोकप्रतीतस्याभावप्रसङ्गात् । तदुक्तम् - “'न च स्याद्व्यवहारोऽयं कारणादिविभागतः । प्रागभावादिभेदेन नाभावो यदि भिद्यते ।।१।। यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्गवादिवद्वस्तुप्रमेयत्वाञ्च गृह्यताम् ।।२।। न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता । कार्यादीनामभावः को भावो यः कारणादिना ।।३।। (२/१) वस्तु संकरसिद्धिश्च तत्प्रामाण्यं समाश्रिता । क्षीरोदध्यादि यन्नास्ति प्रागभावः स उच्यते ।।४।। नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽवाद्यभावस्तु सोऽन्योन्याभाव उच्यते ।।५।।" शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ।। शसश्रृङ्गादिरुपेण सोऽत्यन्ताभाव उच्यते ।।६।।" यदि चैतद्व्यवस्थापकमभावाख्यं प्रमाणं न भवेत्, तदा प्रतिनियतवस्तुव्यवस्था दूरोत्सारितैव स्यात् । “क्षीरे दधि भवेदेवं दन्नि क्षीरं घटे पटः । शशे श्रृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ।।७।। अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तो सह । व्योम्नि संस्पर्शिता ते च न चेदस्य प्रमाणता ।।८।।" [मी. श्लोक० अभाव० श्लो-२-९] इति ।।
१ मीमांसाश्लोकवार्तिक, पृ. ४१४-श्लो. ७१-७३ ७-९-८-२-३-४-५-६ । २. गम्यते, (२/१) वस्त्वसंकरसिद्धिश्च गी. श्लोक. । ३. एव समाश्रया, ४. इप्यते