________________
७२०
षड्दर्शन समुशय भाग- २, श्लोक-५८, जैनदर्शन
अश्वमेघस्य वचनान्न्यूनानि पशुभित्रिभिः ।।१।।" [ ] तथा “अग्नीषोमीयं पशुमालभेत" [ऐतरेय आ० ६/१३] “सप्तदश प्राजापत्यान्पशूनालभेत" [तैति० सं० १/४] इत्यादि वचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते ? १। तथानृतभाषणं प्रथमं निषिध्य पश्चादूचे ब्राह्मणार्थेऽनृतं ब्रूयादित्यादि । तथा “न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ।।२।।” [वसि० धर्म० १६/३६] तथाऽदत्तादानमनेकधा निरस्य पश्चादुक्तम् । यद्यपि ब्राह्मणो हठेन परकीयमादत्ते बलेन वा, तथापि तस्य नादत्तादानं, यतः सर्वमिदं ब्राह्मणेभ्यो दत्तं ब्राह्मणानां तु दौर्बल्यावृषलाः परिभुञ्जते, तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददातीति ३ । तथाऽपुत्रस्य गतिर्नास्तीति लपित्वोक्तम् “अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवंगतानि विप्राणामकृत्वा कुलसंततिम् ।।१ ।।” इत्यादि ।। तथा “न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ।।१।।" [मनु० ५/५६] इति स्मृतिगते श्लोके । यदि प्रवृत्तिनिर्दोषा, तदा कथं ततो निवृत्तिस्तु महाफलेति व्याहतमेतत् ४ । वेदविहिता हिंसा धर्महेतुरित्यत्र प्रकट एव स्ववचनविरोधः, तथाहिधर्महेतुश्चेद्धिंसा कथं ? हिंसा चेद्धमहेतुः कथम् ? न हि भवति माता च वन्ध्या चेति । धर्मस्य च लक्षणमिदं श्रूयते । “श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।।१।।" [चाणक्यः १/७] इत्यादि अर्चिार्गप्रपत्रैर्वेदान्तवादिभिर्गर्हिता चेयं हिंसा । “अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ।।१।।" इति ।। तथा भवान्तरं प्राप्तानां तृप्तये च श्राद्धादिविधानं तदप्यविचारितरमणीयम् । तथा च तद्यूथिनः पठन्ति । "मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य स्नेहः संवर्धयेच्छिखाम् इति ।। ।।” ५ ।। एवमन्यान्यपि पुराणोक्तानि पूर्वापरविरुद्धानि संदेहसमुचयशास्त्रादत्रावतार्य वक्तव्यानि । तथा नित्यपरोक्षज्ञानवादिनो भट्टाः स्वात्मनि क्रियाविरोधाज्ज्ञानं स्वप्रकाशकमभ्युपगच्छन्तः प्रदीपस्य परं(स्व)प्रकाशकमनङ्गीकुर्वन्तश्च कथं सद्भूतार्थभाषिणः । तथा ब्रह्माद्वैतवादिनोऽविद्याविवेकेन सन्मात्रं प्रत्यक्षात्प्रतियन्तोऽपि न निषेधकं प्रत्यक्षमिति ब्रुवाणाः कथं न विरुद्धवादिनः, अविद्यानिरासेन सन्मात्रस्य