________________
षड्दर्शन समुझय भाग-२, श्लोक-५७, जैनदर्शन
प्रसङ्गात् । तथा च सर्वव्यवहारोच्छेदप्रसक्तिरिति सिद्धमनन्तधर्मात्मकं वस्तु । प्रयोगश्चात्र-विवादस्पदं वस्त्वेकानेकनित्यानित्यसदसत्सामान्यविशेषाभिलाप्यनभिलाप्यादिधर्मात्मकं, तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वात्, यद्यथैवास्खलत्प्रत्ययेन प्रतीयमानं तत्तथैव प्रमाणगोचरतयाभ्युपगन्तव्यम् यथा घटो घटरूपतया प्रतीयमानो घटतयैव प्रमाणगोचरोऽभ्युपगम्यते न तु पटतया, तथैवास्खलत्प्रत्ययेन प्रतीयमानं च वस्तु, तस्मादेकानेकाद्यात्मकं प्रमाणगोचरतयाभ्युपगन्तव्यम् । न चात्र स्वरूपासिद्धो हेतुः, तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वस्य सर्वत्र वस्तुनि विद्यमानत्वात् । न हि द्रव्यपर्यायात्मकाभ्यामेकानेकात्मकस्य १ नित्यानित्यात्मकस्य च २ स्वरूपपररूपाभ्यां सदसदात्मकस्य ३ सजातीयेभ्यो विजातीयेभ्यश्चानुवृत्तव्यावृत्तरूपाभ्यां सामान्यविशेषात्मकस्य ४ स्वपरपर्यायाणां क्रमेणाभिलाप्यत्वेन युगपत्तेषामनभिलाप्यत्वेन चाभिलाप्यानभिलाप्यात्मकस्य च ५ सर्वस्व पदार्थस्यास्खलत्प्रत्ययेन प्रतीयमानत्वं कस्यचिदसिद्धम् । तत एव न संदिग्धासिद्धोऽपि, न खल्वबाधकतया प्रतीयमानस्य वस्तुनः संदिग्धत्वं नाम । नापि विरुद्धः, विरुद्धार्थसंसाधकत्वाभावात् । न हि साङ्ख्यसौगताभिमतद्रव्यैकान्तपर्यायैकान्तयोः काणादयोगाभ्युपगतपरस्परविविक्तद्रव्यपर्यायैकान्ते च तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वमास्ते, येन विरुद्धः स्यात् । नापि पक्षस्य प्रत्यक्षादिबाधा, येन हेतोरकिञ्चित्करत्वं स्यात् । नापि दृष्टान्तस्य साध्यविकलता साधनविकलता वा, न खलु घटस्यैकानेकादिधर्मात्मकत्वम् तथैवास्खलत्प्रत्ययप्रतीयमानत्वं चासिद्धं, प्रागेव दर्शितत्वात् । तस्मादनवा प्रयोगमुपश्रुत्य किमित्यनेकान्तो नानुमन्यते । . ટીકાનો ભાવાનુવાદ
એકાંતે ધર્મથી ધર્મો ભિન્ન કે અભિન્ન હોતા નથી. કારણકે તેવા પ્રકારની ઉપલબ્ધિ થતી નથી અને ધર્મીથી કથંચિતુઅભિન્ન જ ધર્મોની પ્રતીતિ થાય છે. અર્થાત્ ધર્મીથી ધર્મો એકાંતે ભિન્ન કે અભિન્ન નથી, કારણ કે તેવા પ્રકારની પ્રતીતિ નથી અને ધર્મીથી કથંચિતઅભિન્ન ધર્મોની જ પ્રતીતિ થાય છે. અર્થાત્ કોઈપણ પ્રમાણદ્વારા ધર્મીથી ધર્મો એકાંતે અભિન્ન કે ભિન્ન સિદ્ધ થતા નથી. પરંતુ પ્રમાણ દ્વારા ધર્મીથી ધર્મો કથંચિતઅભિન્ન જ પ્રતીત થાય છે. (અહીં હવે ને.. वक्तव्यं वय्ये पौद्धमत छ तेने ४९॥वी, ते योग्य नथी, तम ग्रंथ।२श्री न... वक्तव्यं द्वा२।
शे.)