________________
षड्दर्शन समुचय भाग - २, श्लोक-५२, जैनदर्शन
५६५
'नापि मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम्, तञ्च तास्वनल्पं सुदुर्धरशीलवतीषु सम्भवति । अतो न चारित्रासम्भवेन तासां हीनत्वम् । ननु भवत्वविशिष्टं चारित्रं स्त्रीणां, परं परमप्रकर्षप्राप्तं यथाख्याताभिधं तासां न स्यादिति पुरुषेभ्यो हीनत्वमिति चेत् ? तर्हि चारित्रपरमप्रकर्षाभावोऽपि तासां किं कारणाभावेन १ विरोधसम्भवेन वा, न तावदाद्यः पक्षः, अविशिष्टचारित्राभ्यासस्यैव तन्निबन्धनत्वात्, तस्य च स्त्रीष्वनन्तरमेव समर्थितत्वात् । नापि द्वितीयः, यथाख्यातचारित्रस्याग्दृिशामत्यन्तपरोक्षतया केनचिद्विरोधानिर्णयादिति न चारित्राभावेन स्त्रीणां हीनत्वम् ? नापि विशिष्टसामर्थ्यासत्त्वेन, यत इदमपि किं सप्तमनरकपृथ्वीगमनायोग्यत्वेन १ वादादिलब्धिरहितत्वेन २ अल्पश्रुतत्वेन वा २ ? । न तावदाद्यः पक्षः, यतस्तदभावः किं यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते सामान्येन वा ? यद्याद्यपक्षः, तर्हि पुरुषाणामपि यत्र जन्मनि मुक्तिगामित्वं तत्र सप्तमपृथ्वीगमनायोग्यत्वं, ततस्तेषामपि मुक्त्यभावः स्यात् । अथ द्वितीयः, तदायमाशयो भवतः, यथा सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेन प्राप्यते, सर्वोत्कृष्टे च द्वे एव पदे सर्वदुःखस्थानं सप्तमी नरकपृथ्वी सर्वसुखस्थानं मोक्षश्च, ततो यथा स्त्रीणां सप्तमपृथ्वीगमनमागमे निषिद्धं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्याभावात्, एवं 'मोक्षोऽपि तथाविधशुभमनोवीर्याभावान्न स्त्रीणां भविष्यति । प्रयोगश्चात्र-नास्ति स्त्रीषु मुक्तिकारणशुभमनोवीर्यपरमप्रकर्षः प्रकर्षत्वात् सप्तमपृथ्वीगमनकारणाशुभमनोवीर्यपरमप्रकर्षवत्, तदेतदयुक्तं, व्याप्तेरभावात् । न हि बहिर्व्याप्ति-मात्रेण हेतुर्गमकः स्यात्, किं त्वन्तप्त्या , अन्यथा तत्पुत्रत्वादेरपि गमकत्वप्रसङ्गः, अन्तर्व्याप्तिश्च प्रतिबन्धबलेनैव सिध्यति, न चात्र प्रतिबन्धो विद्यते, ततः सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनं चरमशरीरिभिनिश्चिन्तव्यभिचारं च, तेषां हि सप्तमपृथ्वीगमनहेतुमनोवीर्यप्रकर्षाभावेऽपि मुक्तिहेतुमनोवीर्यप्रकर्षसद्भावात्, तथा मत्स्यैरपि व्यभिचारः, तेषां हि सप्तमपृथ्वीगमनहेतमनोवीर्यप्रकर्ष-सद्भावेऽपि न मुक्तिगमन-हेतुशुभमनोवीर्यप्रकर्षसद्भाव इति । ટીકાનો ભાવાનુવાદ : -
મંદસત્ત્વ હોવાના કારણે સ્ત્રીઓને ચારિત્રનો અભાવ હોય છે.–આવું કહી શકાય તેમ નથી. કારણ કે અહીં વ્રત, તપ ધારણ કરવાવિષયક સત્ત્વની વાત છે, તે સત્ત્વ તો અત્યંતદુ:ખેથી १. सर्वोत्कृष्टाशुभ इत्यपि पाठः । (२) यथा मुक्तिगमनमपि तद्गमनयोग्यतथाविधशुभमनोवीर्याभावात् इत्यपि पाठः