________________
षड्दर्शन समुचय भाग - २, श्लोक ५२, जैनदर्शन
સુખ તથા અતિશયિતજ્ઞાનાદિને પ્રાપ્ત કરવાની અભિલાષાથી જ મોક્ષમાં પ્રવર્તે છે. પરંતુ પથ્થરની શિલાના ટૂકડા સમાન સકલસુખના સંવેદનવિનાના આત્માનો ઉત્પાદક૨વા પ્રયત્ન કરતા નથી. તથા જો મોક્ષાવસ્થામાં પણ પાષાણસમાન લેશમાત્ર પણ સુખના સંવેદનવિનાનો આત્મા હોય છે, તો તે મોક્ષથી સર્યું, સંસાર જ શ્રેષ્ઠ છે. કારણકે સંસારમાં આંતરે આંતરે (દુ:ખ પછી) થોડું ઘણું પણ સુખ હોય છે. આથી વૈશેષિકોદ્વારા કલ્પિત મોક્ષમાં જવા માટે કોઈની પણ ઇચ્છા થતી નથી. તેથી કહ્યું છે કે... “ગૌતમઋષિ વૈશેષિકોદ્વારા કલ્પિત જડમુક્તિમાં જવા માટે ઇચ્છતા નથી. પરંતુ વૃન્દાવનના જંગલમાં શીયાળોની સાથે રહેવાનું સારું માને છે.”
५४१
एतेन यदूचुर्मीमांसका [चुर्नैयायिका ] अपि " यावदात्मगुणाः सर्वे, नोच्छिन्ना वासनादयः तावदात्यन्तिकी दुःखव्यावृत्तिर्नावकल्प्यते । । १ । । धर्माधर्मनिमित्तो हि, संभवः सुखदुःखयोः । मूलभूतौ च तावेव, स्तम्भौ संसारसद्मनः । । २ । । तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवत् । नात्मनः सुखदुःखे स्त, इत्यसौ मुक्त उच्यते । । ३ । । ननु तस्यामवस्थायां कीदृगात्मावशिष्यते । स्वरूपैकप्रतिष्ठानः, परित्यक्तोऽखिलैर्गुणैः । । ४ । । उर्मिषट्कातिगं रूपं तदस्याहुर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् । । ५ । ।” [ न्यायम० प्रमे० पृ० ७] उर्मयः कामक्रोधमदगर्वलोभदम्भाः, “नहि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः " [छान्दो० ८/१२/१] इत्यादि, तदप्यपास्तं द्रष्टव्यम् । यतः किं शुभकर्मपरिपाकप्रभवाणि भवसंभवानि सुखानि मुक्तौ निषिध्यमानानि सन्त्युत सर्वथा तदभावः । आद्ये सिद्धसाधनम् । द्वितीयेऽसिद्धः आत्मनः सुखस्वरूपत्वात् । न च पदार्थानां स्वरूपमत्यन्तमुच्छिद्यते, अतिप्रसङ्गात् । न च सुखस्वभावत्वमेवासिद्धं तत्सद्भावे प्रमाणसद्भावात् । तथाहि-आत्मा सुखस्वभावः, अत्यन्तप्रियबुद्धिविषयत्वात् अनन्यपरतयोपादीयमानत्वाच्च, वैषयिकसुखवत् । यथा सुखार्थो मुमुक्षुप्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृषीवलप्रयत्नवदिति । तच सुखं मुक्तौ परमातिशयप्राप्तं, सा चास्यानुमानात्प्रसिद्धा यथा, सुखतारतम्यं क्वचिद्विश्रान्तं, तरतमशब्दवाच्यत्वात्, परिमाणतारतम्यवत् । तथाहि“ आनन्दं ब्रह्मणो रूपं, तच्च मोक्षेऽभिव्यज्यते । यदा दृष्ट्वा परं ब्रह्म, सर्वं त्यजति बन्धनम् ।।१ ।। तदा तन्नित्यमानन्दं, मुक्तः स्वात्मनि विन्दति । ” इति श्रुतिसद्भावात् । तथा "सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद्दुः प्रापमकृतात्मभिः । 19 ।। " इति स्मृतिवचनाच मोक्षस्य सुखमयत्वं प्रतिपत्तव्यमिति स्थितम् ।।