________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन
कार्यत्वप्रसिद्धेः । तथाहि उर्वीपर्वततर्वादिकं सर्वं कार्यं, सावयवत्वात्, घटवत् । नापि विरुद्धः, निश्चितकर्तृके घटादी कार्यत्वदर्शनात् । नाप्यनैकान्तिकः, निश्चिताकर्तृकेभ्यो व्योमादिभ्यो व्यावर्तमानत्वात् । नापि कालात्ययापदिष्टः, प्रत्यक्षागमाबाधितविषयत्वात् । न वाच्यं घटकर्त्रादिदृष्टान्तदृष्टासर्वज्ञत्वासर्वगतत्वकर्तृत्वादिधर्मानुरोधेन सर्वज्ञादिविशेषणविशिष्टसाध्यविपर्ययसाधनाद्विरुद्धो हेतुर्दष्टान्तश्च साध्यविकलो घटादौ तथाभूतबुद्धिमतोऽभावात् इति । यतः साध्यसाधनयोर्विशेषेण व्याप्तौ गृह्यमाणायां सकलानुमानोच्छेदप्रसक्तिः, किं तु सामान्येनान्वयव्यतिरेकाभ्यां हि व्याप्तिरवधार्यते । तौ चानन्त्याद्व्यभिचाराच्च विशेषेषु गृहीतुं न शक्यौ । तेन बुद्धिमत्पूर्वकत्वमात्रेण कार्यत्वस्य व्याप्तिः प्रत्येतव्या न शरीरित्वादिना । न खलु कर्तृत्वसामग्र्यां शरीरमुपयुज्यते, तदव्यतिरेकेणापि ज्ञानेच्छाप्रयत्नाश्रयत्वेन स्वशरीरकरणे कर्तृत्वोपलम्भात् । अकिंचित्करस्यापि सहचरत्वमात्रेण कारणत्वे वह्निपैङ्गल्यस्यापि धूमं प्रति कारणत्वप्रसङ्गः स्यात् । विद्यमानेऽपि हि शरीरे ज्ञानादीनां समस्तानां व्यस्तानां वाऽभावे कुलालादावपि कर्तृत्वं नोपलभ्यते । प्रथमं हि कार्योत्पादककारणकलापज्ञानं, ततः करणेच्छा, ततः प्रयत्नः, ततः फलनिष्पत्तिरित्यमीषां त्रयाणां समुदितानामेव कार्यकर्तृत्वे सर्वत्राव्यभिचारः ।
३८४
ઈશ્વરવાદિ (પૂર્વપક્ષ) : તમારી તે વાત યોગ્ય છે કે જે મોક્ષમાં જઈને પાછા સંસારમાં આવે છે તે સુગતાદિ દેવ નથી. તે અમને પણ માન્ય છે. પરંતુ તમે આ ચરાચરવિશ્વના સર્જનહાર ઈશ્વરને દેવ તરીકે કેમ માનતા નથી ? (અર્થાત્ ઈશ્વ૨માં સમસ્તજગતના સર્જનની શક્તિ માનવી જોઈએ. તમારી તે વાત યોગ્ય છે કે જે એકવાર મોક્ષમાં જાય છે, તે પુનઃ સંસારમાં ન આવી શકે. પરંતુ ઈશ્વર સાદિમુક્ત જીવોથી વિલક્ષણ છે. ઈશ્વર અનાદિમુક્ત છે. શિષ્યાનુગ્રહ અને દુષ્ટના નિગ્રહમાટે અવતાર લેવો તે ઈશ્વરની લીલા છે. માત્ર અવતાર લેવારૂપ લીલા દેખવા માત્રથી ઈશ્વરને સકર્મા ન મનાય. આથી સૃષ્ટિકર્તા ઈશ્વર માનવા જોઈએ.)
उप० पृ० ६२ । “शरीरानपेक्षोत्पत्तिकं बुद्धिगत्पूर्वकम् कारणत्वात्... द्रव्येषु सावयवत्वेन तद्गुणेपु कार्यगुणत्वेन कर्मसु कर्मत्वेनैव तदनुमानात् ।।” प्रशस्त० किराणा० पृ० ९७ । न्यायली० पृ० २० / न्यायमुक्ता० दिन० पृ०२३ । विवादाध्यासिता तनु-रुहमहीधरादयः उपादानाभिज्ञकर्तुका उत्पत्तिमत्त्वात् अचेतनोपादानत्वाद्वा ... यथा प्रासादादि । न चैषामुत्पत्तिमत्त्वमसिद्धग्; सावयवत्वेन वा महत्त्वे सति क्रियावत्वेन वा वस्त्रादिवत्तत्सिङ्गेः ।। " न्यायवा० ता . टी. पृ. ५९८ । न्यायमं० ।। “कार्याप्रयोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाञ्च साध्य विश्वविदव्ययः ।।१।।” - न्यायकुसु० पञ्चमस्त० ।