________________
षड्दर्शन समुशय भाग - १, श्लोक - १
१७
अथवा सूत्रकृदाख्ये द्वितीयेऽङ्गे परप्रवादुकानां त्रीणि शतानि त्रिषष्ट्यधिकानि परिसंख्यायन्ते । तदर्थसंग्रहगाथेयं
“असिइसयं किरियाणं अकिरियवाईण होइ चुलसीई । अन्नाणि अ सत्तट्ठी वेणइयाणं च बत्तीसं (बत्तीसा) ।। १ ।।" [सूत्रकृ० नि० गा० - ११९] ___ अस्या व्याख्या-अशीत्यधिकं शतम् । “किरियाणं ति” क्रियावादिनाम् । तत्र क्रियां जीवाद्यस्तित्वं वदन्तीत्येवंशीलाक्रियावादिनः, मरीचिकुमारकपिलोलूकमाठरप्रभृतयः । ते पुनरमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेयाः । जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान्नव पदार्थान् परिपाट्या पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ । तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः । ततश्चैवं विकल्पाः कर्तव्याः । तद्यथा अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः । अस्य च विकल्पस्यायमर्थः । विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनो मते । कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव जगत्सर्वं मन्यन्ते । तथा च ते प्राहुः । न कालमन्तरेण चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रचारगर्भाधानवर्षादयो वर्तुविभागसंपादिता बालकुमारयौवनवलीपलितागमादयो वावस्थाविशेषा घटन्ते, प्रतिनियतकालविभागत एव तेषामुपलम्यमानत्वात् । अन्यथा सर्वमव्यवस्थया भवेत् । न चैतदृष्टमिष्टं वा । अपि च । मुद्गपक्तिरपि न कालमन्तरेण लोके भवन्ती दृश्यते । किं तु कालक्रमेण । अन्यथा स्थालीन्धनादिसामग्रीसंपर्कसंभवे प्रथमसमयेऽपि तस्या भावो भवेत् । न च भवति । तस्माद्यत्कृतकं तत्सर्वं कालकृतमिति । तथा चौक्तम् -
“न कालव्यतिरेकेण गर्भबालयुवादिकम् । यत्किंचिज्जायते लोके तदसौ कारणं किल ।। १ ।। किं च कालादृते नैव मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ।। २ ।। कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ।। ३ ।। [शास्त्रवा० श्लो० १६५-१६८] काल: पचति भूतानि कालः संहरते प्रजाः ।। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।। ४ ।।" [महाभा० हारीतसं०]