________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १
तेथी सोत्पनियम ५. . H.. २मद्रसूरि 43 °४ ४३वायु छ ...
“તે વીરપરમાત્મા અમારા ભાઈ નથી અને અન્ય (બ્રહ્માદિ) અમારા શત્રુ પણ નથી. કારણકે તેઓમાંના એક પણને સાક્ષાત્ દૃષ્ટિથી (અમે) જોયા નથી. પરંતુ બીજા દેવોથી) ભિન્ન અને વિશેષચરિત્ર છે, એવા શ્રીવીર પરમાત્માના વચનને સાંભળીને (તેઓશ્રીના) ગુણોની અતિશય લોલુપતાથી (શ્રીવર પરમાત્માનો) આશ્રય કરાયો છે. (૧) વિર પરમાત્મા ઉપર મને પક્ષપાત નથી. (અન્યદર્શનના પ્રણેતા એવા) કપિલાદિ ઉપર દ્વેષ નથી, (પરંતુ) જેનું વચન યુક્તિયુક્ત होय तेनो स्वी२ ४२वी. (२)" વીર પરમાત્માની સ્તુતિમાં કલિકાલસર્વજ્ઞ પૂ. હેમચંદ્રસૂરિજી વડે પણ કહેવાયું છે કે... “તમારા ઉપર શ્રદ્ધામાત્રથી જ પક્ષપાત નથી અને અન્ય બ્રહ્માદિ ઉપર દ્વેષમાત્રથી જ અરૂચિ નથી. પરંતુ યથાવત્ આપ્તત્વની પરીક્ષાવડે તે વીરપ્રભુનો આશ્રય કર્યો છે.”
नन्वत्र सर्वदर्शनवाच्योऽर्थो वक्तुं प्रक्रान्तः, स च संख्यातिक्रान्तः । तत्कथं स्वल्पीयसानेन प्रस्तुतशाश्त्रेण सोऽभिधातुं शक्यो, जैनादन्यदर्शनानां परसमयापरनामधेयानामसंख्यातत्वात् । तदुक्तं सम्मतिसूत्रे श्री सिद्धसेनदिवाकरेण"जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चेव परसमया ।।१।।" [सम्मति० ३/४७]
व्याख्या-अनन्तधर्मात्मकस्य वस्तुनो य एकदेशोऽन्यदेशनिरपेक्षस्तस्य यदवधारणं सोऽपरिशुद्धो नयः । स एव च वचनमार्ग उच्यते । एवं चानन्तधर्मात्मकस्य सर्वस्य वस्तुन एकदेशानामितरांशनिरपेक्षाणां यावन्तोऽवधारणप्रकाराः संभवन्ति, तावन्तो नया अपरिशुद्धा भवन्ति । ते च वचनमार्गा इत्युच्यते । ततोऽयं गाथार्थः । सर्वस्मिन् वस्तुनि यावन्तो यावत्संख्या वचनपथा वचनानामन्योन्यैकदेशवाचकानां शब्दानां मार्गा अवधारणप्रकारा हेतवो नया भवन्ति, तावन्त एव भवन्ति नयवादाः, नयानां तत्तदेकदेशावधारणप्रकाराणां वादाः प्रतिपादकाः शब्दप्रकाराः । यावन्तो नयवादा एकैकांशावधारणवाचकशब्दप्रकाराः, तावन्त एव परसमया परदर्शनानि भवन्ति, स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात्परसमयानां विकल्पानां चासंख्यत्वात् । अयं भावः । यावन्तो जने तत्तदपरापरवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयुस्तावन्त एव परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव स्वकल्पनाशिल्पिघटितविकल्पानाम