________________
३५८
षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुश्शयभूमिका
घातीनि, वेदनीय-आयु:-नाम-गोत्राख्याणि चत्वारि च कर्माणि अघातीनि । सम्यग्ज्ञान-दर्शनचारित्रादिरूपं स्वविषयं सर्वतो देशतो वा यथायोगं नन्ति यानि तानि घातीनि । हन्तव्याभावान किमपि प्रन्ति यानि तान्यघातीनि । बद्धस्य कर्मणः परिशाटो निर्जरा । कृत्स्त्रकर्मक्षयो मुक्तिः, यद्वा कर्मक्षयद्वारा ज्ञानक्रियासाध्यः परमानन्द एव मुक्तिरिति एकेन वृत्तेन तत्त्वद्वयनिरूपणं कृतमित्येवं पञ्चवृत्तोक्तानि नवतत्त्वलक्षणानि सविस्तरं विवेचितानि । एषैव आहती तत्त्वविषयिणी प्रक्रिया । ___ एतेन (अद्वैतब्रह्मसिद्धिपाठः पृ. १०६) "अस्तिकायशब्दः पारिभाषिकः अनियतपदार्थवाची । जीवश्चासावस्तिकायश्चेति कर्मधारयः । नतु नियतसत्त्वं अनेकान्तवादस्वीकारात् । एवमपरत्रापि । अत्रापि तु परमाणव एवावयव्यारम्भक्रमेण वैशेषिकादिवज्जमदारभन्ते । तत्र देहमात्रपरिमाणः चैतन्यमात्रस्वरूप: सततोर्ध्वगमनस्वभावः सावयवो जीवास्तिकायः । स पुनस्त्रिविधः । बद्धो, मुक्तो, नित्यसिद्धश्च इति । अत्र अर्हन्मुनिनित्यसिद्धः । नित्यसाधनैर्मुक्तत्वात् । इतरे केचन साधनैर्मुक्ताः । अन्ये तु बद्धा इति भेदः।
पुद्गलास्तिकायः षोढा । पृथिव्यादीनि चत्वारि भूतानि, स्थावरं जचमं चेति । तप्तशिलारोहणकेशलुञ्चनादिशास्त्रप्रभवया बाह्यचेष्टारूपया सम्यक्प्रवृत्त्या ह्यान्तरो अपूर्वाख्यो धर्मोऽनुमीयत इत्यसो धर्मास्तिकायः । सततोर्ध्वगमनं जीवस्य स्वभावः, देहे स्थितिस्तु तत्प्रतिबन्धककर्माधीना इत्यार्हतं मतं, तस्माजीवस्य देहावस्थानेन अधर्मोऽनुमीयते इत्यधर्मास्तिकाय: । आकाशास्तिकायश्च द्वेधा । लोकाकाशोऽलोकाकाशश्चेति । तत्र उपरि चतुर्दश भुवनेषु स्थितानां लोकानां अन्तर्वी लोकाकाश: तेषामप्युपरि मोक्षस्थानमलौकिकाकाशः । तदेवं जीवाजीवपदार्थो पञ्चधा प्रपञ्चितौ । पञ्चास्तिकायभेदात् । अनन्तरं आस्रव-संवर-निर्जरा: त्रयः प्रवृत्तिलक्षणाः प्रपञ्ज्यन्ते । तत्र द्विधा प्रवृत्तिः । समीचीना मिथ्या च । तत्र मिथ्याप्रवृत्तिराश्रवः । आश्रवत्येनन जीवो विषयेषु इत्याश्रव इन्द्रिसङ्घातः । अण्यन्तात् 'आश्रव' शब्दो 'आस्राव' इति स्यात् । अपरे तु कर्तारमभिव्याप्य आस्रवति आगच्छतीति कर्माणि आस्रवमाचक्षते । सेयं मिथ्याप्रवृत्तिः अनर्थहेतुत्वात् । संवर-निर्जरौ च सम्यक्प्रवृत्ती ।
"आस्रवस्रोतसां द्वारं संवृणोतीति संवरः । आस्रवो भवहेतुः स्यात् संवरो मोक्षकारणम् ।।१ ।" इति जिनोक्तः । स च संवरः शमदमगुप्तिसमितिप्रवृत्तिरूपः । तत्र बाह्येन्द्रियनिग्रहः शमः । अन्तरिन्द्रियनिग्रहो दमः । कायवाङ्मनोनिग्रहो दृढतरो गुप्तिः । भूमिगतजन्तुहिंसापरिहाराय प्रहृते मार्गे सम्यगादित्यरश्मिप्रकाशे सति निरीक्ष्य सञ्चरणं नियताहारनिषेवणादिः समितिः । निर्जरस्त्वनादिकालप्रवृत्तकषायकलुषपुण्याऽपुण्यप्रहाणहेतुस्तप्तशिलारोहणकेशलुचनादिः । स हि निःशेषं पुण्याऽपुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः । एवमास्रव-संवर-निर्जरास्रयोऽपि पदार्थाः सक्षेपेण निरूपिताः । अनन्तरं बन्धो निरूप्यते ।