________________
षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका
३५७
स परमाणुस्कन्धभेदेन द्विविधः, ते परमाणवः स्कन्धाश्च कथञ्चित्रित्याः कथञ्चिदनित्याश्च । परमाणूनामेकान्तनित्यत्वे तेषां कार्यतानुपपत्तेः, परमाण्वभिन्नानां स्कन्धानां चैकान्तानित्यत्वे परमाणूनामपि क्षणिकत्वापत्तेः । अत्र घटादिस्कन्धोपपत्तिरपि न वैशेषिकवत् परमाणुषु क्रिया, ततो विभाग इत्यादिक्रमेण, दृष्टविरोधात् । वर्तनालक्षणः कालः । तीर्थकरत्वादिशुभफलसम्पादका: शुभकर्म-पुद्गला: पुण्यम् । इति तत्त्वत्रयं वृत्तद्वयवृत्तौ सप्रपञ्चं प्रपञ्चितम् । नारकत्वाद्यशुभफलसम्पादका अशुभकर्मपुद्गला: पापम् । शुभाशुभकर्मागमनद्वारमाश्रवः । आस्रवति कर्म येन (मिथ्यात्वाविरतिकपाययोगान्यतमेन) इति व्युत्पत्तेः । आत्मन: कर्मोपादानहेतुभूतपरिणामनिरोधः संवरः । संव्रियते आच्छाद्यते आस्रवद्वाराणि येनेति व्युत्पत्तेः । क्षीरनीरवत् जीवकर्मपुद्गलानां परस्परमाश्लेषः बन्धः । यद्वा येन ज्ञानावरणीयादिरूपेण कर्मणा बध्यते पारतन्त्र्यमापाद्यते आत्मा स बन्धः, स चतुर्दा, प्रकृतिस्थितिरसप्रदेशभेदात् । इति तत्त्वचतुष्टयी वृत्तद्वयेन व्याख्याता । यद्यप्यत्र बन्धतत्त्वाधिकारे ज्ञानावरणीयादिभेदेन अष्टविधं कर्म विस्तरभयेन नालेखि वृत्तिकृता, "कर्मग्रन्थादवसेयम्" इति चोपादेशि, तथापि अद्वैतब्रह्मसिद्धिकारश्रीसदानन्दीयमुद्गरप्रहारं प्रतिरोद्धं वज्रप्रहारोद्भावनाय, भामतीवृत्तिकारश्रीवाचस्पतिमिश्रादीनामतिजडिमसंसूचनाय च व्युत्पत्तिमात्रेण कर्माष्टकस्वरूपं प्रतन्यते । तथाहि - ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन् वेति ज्ञानं, ज्ञप्तिर्वा ज्ञानं सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः । आवियते आच्छाद्यतेऽनेनेत्यावरणम्, यद्वा आवृणोति आच्छादयति इति आवरणं, मिथ्यात्वादिसचिवजीवव्यापाराहतकर्मवर्गणान्त:पाती विशिष्टपुद्गलसमूह इत्यर्थः, ज्ञानस्यावरणं ज्ञानावरणम् । तथा दृश्यतेऽनेनास्मादस्मिन् वेति दर्शनं, दृष्टिा दर्शनं, सामान्यविशेषात्मके वस्तुनि सामन्यग्रहणात्मको बोध इत्यर्थः, तस्यावरणं दर्शनावरणम् । तथा वेद्यते सुखदुःखस्वरूपतयाऽनुभूयते यत्तवेद्यम्, यद्यपि सर्वं कर्म वेद्यत एव, तथापि पङ्कजादिपदवत् वेद्यशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेद्यमित्युच्यते, न शेषम् । मोहयति जानानमपि प्राणिनं सदसद्विवेकशून्यं करोतीति मोहनीयम् । तथा एति गच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति आगच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिदुर्गतेर्निर्गन्तुमनसोऽपि जन्तोरित्यायुः, यद्वा याति भवाद्भावान्तरं सङ्क्रामतां जन्तूनां निश्चयेनोदयमागच्छतीत्यायुः । यद्यपि सर्वं कर्म उदयमायाति, तथापि विद्यते आयुषो विशेषः, यतः शेषं कर्म बद्धं सत् किञ्चित्तस्मिन् एव भव उदयमायाति, किञ्चित्तु प्रदेशोदयभुक्तं जन्मान्तरेऽपि स्वविपाकत उदयं नायाति, आयुषि त्वयं नास्ति प्रकारः, बद्धस्य तस्मिन्नेव भवेऽवेदनात्, जन्मान्तरसङ्क्रान्तौ तु स्वविपाकतोऽवश्यं वेदनात्, इति विशिष्टस्यैवोदयागमनस्य विवक्षितत्वात् तस्य चायुष्येव सद्भावात्, तस्यैवेतनाम, अथवाऽयान्त्युपभोगाय यस्मिनुदिते सति तद्भवप्रायोग्याणि सर्वाण्यपि शेषकर्माणि इत्यायुः । तथा नामयति गतिजातिप्रभृतिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम । तथा गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रम् । तथा जीवं दानादिकं च अन्तरा व्यवधानापादनायैति गच्छतीत्यन्तरायमिति । ज्ञानावरणीय-दर्शनावरणीय-मोहनीय-अन्तरायाख्याणि चत्वारि कर्माणि