________________
३५२
षड्दर्शन समुश्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका
सार्धेकविंशतिकाव्यमिते द्वितीयाधिकारे नैयायिकमतं न्यरूपि ।
एकादशवृत्तपरिमितेन तृतीयाधिकारेण साङ्ख्यदर्शनस्वरूपं समदर्शि ।। ___ आहेतदर्शननिरूपके चतुर्दशश्लोकप्रमिते चतुर्थाधिकारे वृत्तद्वयेन सातिशयं देवाधिदेवस्वरूपनिर्वर्णनं, एकवृत्तेन नवतत्त्वनामनिरूपणं, वृत्तद्वयेन च जीवाजीवपुण्याख्यतत्त्वत्रयलक्षणं निरवर्णि । __ यद्यप्यत्र मूलोक्तजीवलक्षणे जीवस्य देहपरिमाणत्वं साक्षात्तया नोपात्तं, तथापि “विवृत्तिमान्" इति विशेषणेन स्पष्टतयोपलभ्यते । तथाहि-वि-विविधं वर्त्तनं-वृत्तिः नरामरादिपर्यायानुसरणं तद्वान्, यद्वा वि-विशिष्टा-स्वदेहव्यापिनी वृत्तिरस्यास्तीति विवृत्तिमान् । एतेन नैयायिकादिभिर्विकल्पितमात्मनो विभुत्वं प्रतिषिध्यते, विभुत्वे हि नानात्मव्यवस्थानुपपत्तिः, नभसि नानाघटादिसंयोगवदेकात्मन्यपि नानामन:संयोगेन जीवभेदव्यवस्थोपपत्तेः । न च जननमरणादिनोत्पद्यमाना जीवभेदव्यवस्था दुर्निवारेति प्रलपितव्यम्, तस्या एकस्मिन्नप्यात्मनि घटाकाशादिसंयोगजननविनाशवत् निर्वाहसम्भवात् । अथाऽस्तुनाम तस्या निर्वाहः, परमनादिसंसिद्धाया बन्धमोक्षव्यवस्थायास्तु विच्छेद एव स्यात्, एकस्मिन्नात्मनि तयोविरोधात्, इति चेत् ? नन्वेवं नभस्यप्येकघटसंयोगे सति घटान्तरसंयोगाभावानुपपत्ति: ? नभसि तु प्रदेशभेदोपचारेण नैतद्दोषस्यावकाश इति चेत् ? आत्मन्यपि प्रदेशभेदोपचारेण न बन्धमोक्षव्यवस्थाविच्छेदः, तस्माद्विभुत्वे नानात्मव्यवस्थाऽनुपपन्नेति । अनुमानञ्चात्र-आत्मा न विभुः, सर्वत्र तद्गुणानुपलम्भात् घटवत् । एतेन "बुद्ध्यधिकरणं द्रव्यं विभु, नित्यत्वे सत्यस्मदाद्युपलभ्यमानगुणाधिष्ठानत्वात् आकाशवत्" इत्यनुमानमपि निराकृतमवसेयम्, आत्मनः शरीरपरिणामवत्तया विभुत्वव्याघातात्, "आत्मैकत्वपरिमाणे न योग्ये" इति वृत्तिकारवचनं तु प्रमाणविरोधित्वेनाप्रमाणं, शब्दस्य गुणत्वं त्वस्यैव ग्रन्थस्य वृत्तिकृद्भिः स्वयमेव निरस्तत्वेन दृष्टान्तस्य साधनशून्यत्वाञ्छ । अदृष्टं स्वाश्रयसंयुक्त आश्रयान्तरे कारभते, एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात्, वेगवदित्यनुमानमप्यसुन्दरम्, आत्मवर्त्यदृष्टस्य स्वाश्रयसंयोगघटितसम्बन्धेन आश्रयान्तरे कारम्भकत्वे नगरान्तर्वतिनां कनककामिन्यादीनामप्याकर्षणप्रसङ्गात् । नन्वेवं सति देशान्तरवर्तिपरमाणूनां युगपत्संयोगासम्भवादाद्यकाभावः, तदभावाशान्त्यसंयोगाभावः, तदभावात्तन्निमित्तशरीराभावः, ततस्तत्सम्बन्धाभावः, ततस्सर्वेषां सर्वदा निरुपायनिर्वृतिः स्यात् इति चेत् ? न, विचित्रशक्तिमत्त्वेन भावानां विनैवाश्रयसंयोगं अदृष्टस्य कार्यजनकचात् नहि यद्येन संयुक्तं तत्तं प्रत्येवोपसर्पतीति शक्यते वक्तुम्, लोहाकर्षकेऽयस्कान्ते व्यभिचारात् । अदृष्टविशेषात् प्रतिनियतपरमाणूनामेवाकर्षणसम्भवेन नाचरणीया चेतसि असंयुक्ताकर्षणे यावत्परमाण्वाकर्षणसम्भवेन न जाने कियत्परिमाणं भविष्यति शरीरमिति चमत्कृतिः । एकस्मिन्नपि घटे रूपादिभेदेऽपि घटाभेदवत्परिमाणभेदेऽपि नात्मभेदोपपत्तिः, अतो न विद्यते परिमाणभेदस्य द्रव्यभेदनियतत्वेनात्मभेदोपपत्तिरित्याशङ्काया अवकाशोऽपि । न च मूर्ते मूर्तप्रवेशस्य विरोध इत्यपि क्षोदक्षमम, मनस इव विरोधासम्भवात् । एवञ्चाचेतनत्वापत्तिरित्यपि न निगदितव्यम्, सहचारमात्रदर्शनेन व्याप्त्यग्रहात् ।