________________
षड्दर्शन समुश्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुनयभूमिका
३५१
धर्मात्मकत्वद्योतकत्वेन प्रामाण्याङ्गत्वं, द्योतकत्वं चात्रोपसम्पदानकी शक्तिर्लक्षणा वेत्यन्यदेतत्, तत्र च श्रुतपदप्रतिपाद्यधर्माशे लौकिकी विषयता स्यात्पदद्योत्या अनन्तधर्मात्मकत्वांशेचलोकोत्तरेति विशेषः" इति ।
तत्त्वार्थवृत्त्यभिप्रायोऽप्येवमेव सम्भाव्यते तथा च तद्ग्रन्थः- "प्रमाणं सम्यग्ज्ञानं, नयास्तु मिथ्याज्ञानं, अत आह "एवं सब्वेऽवि नया मिच्छादिट्ठि" अपरे तु वर्णयन्ति परस्परापेक्षा नैगमादयो नया इति व्यपदिश्यन्ते, अध्यवसाया ते, परस्परापेक्षैर्यज्ज्ञानं समस्तवस्तुस्वरुपावलम्बनं जन्यते, तदनवगत वस्तुपरिच्छेदाभ्युपेयत्वात् प्रमाणम्, ये पुनः नैगमादयो निरपेक्षाः परस्परेण ते नयाभासा" इति
न्यायाचार्यास्तु “नयदुनयविभागो न दैगम्बर एव हेमसूरिभिरपि - "सदेव सत्स्यात्सदितित्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः" इत्यादि विभज्याभिधानात्, आकरे नयतदाभासानां व्यक्तेर्बोधितत्वाञ्च । अवधारणी च भाषा एकान्तवादात्मकैव निषिद्धा न तु नयरूपापि, तस्याः प्रमाणपरिकरत्वेन तत्रावधारणीत्वस्य निश्चायकत्वरूपभाषालक्षणान्वयेनैव सिद्धान्तसिद्धत्वात्" इत्यादिना विस्तरतः सङ्गिरन्ते,
यद्यप्यत्रापातमात्रेण मतभेदो दृश्यते तथाप्यपेक्षातः सूक्ष्मधिया विचार्यमाणां न किञ्चिद्विरोधावहं प्रतिभाति, अत एवैतदभिप्रायमभिप्रेत्य नयोपदेशे न्यायाचार्यनिरुक्तं प्रमाणलक्षणं, वैराग्यविरोधितृष्णोच्छेदकानित्यत्वभावनोद्देशेन प्रवृत्तस्य बौद्धदर्शनस्य, रागद्वेषादिविविधनिबन्धननानासम्बन्धधीमलप्रक्षालनस्वस्तटिनीजीवनप्रतिमैकत्वभावनोद्देशेन प्रवृत्तस्य वेदान्तदर्शनस्य, शेषदर्शनानां च तत्तद्भावनोद्देशेन प्रवृत्तानां सुनयत्वोक्तिश्च सङ्गच्छते, एवं प्रामाण्यस्य स्वतः परतः प्रकाशत्वविचारे बौद्धोक्तयुक्तयुपन्यासेन सम्मतिवृत्त्युक्त: मीमांसकमतनिरासोऽपि सङ्गतिमञ्चति । तथाच तत्स्थलम् “न चेदं प्रेर्यम्, यदि जिनशासनं जिनप्रणीतत्वेन सिद्धं निश्चितप्रामाण्यमभ्युपगमनीयम्, अन्यथा प्रामाण्यस्याप्यनभ्युपगनीयत्वादितिप्रसङ्गसाधनमत्र प्रतिपाद्यत्वेनाभिप्रेतम्, तत्किमिति बौद्धयुक्तयाहतेन त्वया स्वत: प्रामाण्यनिरासोऽभिहितः, यतः सर्वसमयसमूहात्मकमेवाचार्येण प्रतिपादयितुमभिप्रेतम्, यद्वक्ष्यत्यस्यैव प्रकरणस्य परिसमाप्तौ यथा"भदं मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवउ संविग्गसुहाहिगम्मस्स ।।१।।"
इत्यादिनाऽयमेवार्थो बौद्धयुक्त्युपन्यासेन समर्थितः, अन्यत्राप्यन्यमतोपक्षेपेणान्यमतनिरासेऽयमेवाभिप्रायो द्रष्टव्यः । सर्वनयानां परस्परसापेक्षाणां सम्यग्मतत्वेन विपरीतानां विपर्ययत्वेनाचार्यस्येष्टत्वात् ।"
इति ।
तस्मात्रयानामतिगभीरत्वेन सर्वत्रापेक्षात एव स्याद्वादिनां सुव्यवस्थेत्यलं पल्लवितेन । षडधिकारात्मकेऽस्मिनिबन्धे षडपि दर्शनानि देव-तत्त्व-प्रमाणभेदैनिधा विभक्तानि । तत्र सार्धकादशश्लोकप्रमिते प्रथमाधिकारे मङ्गलाभिधेयसम्बन्धप्रयोजनरूपचतुष्टयनिरूपणम्, षड्दर्शननामनिरूपणं, सुगतमताभिप्रेततत्त्वनिरूपणं चाकारि ।