________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - ३२, नैयायिक दर्शन
२४१
આ બાવીસમાં અનનુભાષણ, અજ્ઞાન, અપ્રતિભા, વિક્ષેપ, પર્યનુયોજ્યોપેક્ષણ આપાંચ અપ્રતિપત્તિના ભેદો છે અને બાકીના વિપ્રતિપત્તિના ભેદો છે.
तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वाद्धटवदिति साधनं वादी वदन परेण सामान्यमैन्द्रियकमपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते यद्येवं ब्रूयात्सामान्यवद्धटोऽपि नित्यो भवत्विति स एवं ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां जह्यात् । शब्दोऽपि नित्य एव स्यात् । ततः प्रतिज्ञाहान्या पराजीयते १ । प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्यभिचारे नोदिते यदि बूयाद्युक्तं यत्सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति । सोऽयमनित्यः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञान्तरमसर्वगतः शब्द इति प्रतिजानानः प्रतिज्ञान्तरेण निगृहीतो भवति २ । प्रतिज्ञाहेत्वोर्विरोध; प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति । गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति सोऽयं प्रतिज्ञाहेत्वोर्विरोधः । यदि हि गुणव्यतिरिक्तं द्रव्यं न तर्हि रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः । अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, कथं गुणव्यतिरिक्तं द्रव्यमिति । तदयं प्रतिज्ञाविरुद्धाभिधानात्पराजीयते ३ । पक्षसाधने परेण दूषिते तदुद्धरणाशक्तया प्रतिज्ञामेव निढुवानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात्क एवमाह अनित्यः शब्द इति प्रतिज्ञासंन्यासात्पराजितो भवति ४ । ટીકાનો ભાવાનુવાદ: હવે પ્રત્યેકની વ્યાખ્યા કરાય છે. (૧) પ્રતિજ્ઞાાનિઃ હેતુ અનેકાન્તિક કરાdછતે પ્રતિદષ્ટાંતધર્મને સ્વદષ્ટાંતમાં સ્વીકારવું, તે प्रतिहानि नामर्नु निस्थान छ. म अनित्यः शब्द ऐन्द्रियकत्वाद्, घटवत् । मे प्रमा શબ્દમાં અનિત્યત્વને સિદ્ધ કરતા એન્દ્રિયકત્વ સાધનને બોલતો વાદિ, બીજાવડે (પ્રતિવાદિ વડે) સામાન્ય પણ ઐન્દ્રિયક છે. (છતાં પણ) સામાન્ય નિત્ય છે. એ પ્રમાણે હેતુ અનૈકાત્તિક કરાતે છતે, જો એ પ્રમાણે (વાદિ) બોલે છે તો સામાન્યની જેમ ઘટ પણ નિત્ય થાઓ. આ પ્રમાણે