________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - २६, नैयायिक दर्शन
मिति पृथगिहोपदिश्यते । तावदेव ह्यन्वयव्यतिरेकयुक्तोऽर्थः स्खलति, यावन्न स्पष्टदृष्टान्तावष्टम्भः । उक्तं च-“तावदेव चलत्यर्थो मन्तुर्विषयमागतः । यावन्नोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यते ।।१।।" [ ] 'सिद्धान्तस्तु' सिद्धान्तः पुनश्चतुर्भेदो भवेत्, । कुत इत्याह-सर्वतन्त्रादिभेदतः सर्वतन्त्रादिभेदेन । प्रथमः सर्वतन्त्रसिद्धान्तः, आदिशब्दात्प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्च वेदितव्यः । इह तन्त्रशब्देन शास्त्रं विज्ञेयम् तत्र सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः सर्वेषां शास्त्राणां संप्रतिपत्तिविषयः, यथा प्रमाणानि प्रमेयसाधनानि, घ्राणादीनीन्द्रियाणि, गन्धादयस्तदर्थाः, प्रमाणेन प्रमेयस्य परिच्छेद इत्यादि । समानतन्त्रप्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः यथा भौतिकानीन्द्रियाणि यौगानां काणादादीनां च, अभौतिकानि सांख्यानाम् । तथा सांख्यानां सर्वं सदेवोत्पद्यते न पुनरसत्, नैयायिकादीनां सर्वमसदेवोत्पद्यते सामग्रीवशात्, जैनानां तु सदसदुत्पद्यत इत्यादि । यस्य सिद्धान्तस्य प्रक्रियमाणस्य प्रतिज्ञार्थस्य प्रसङ्गेनाधिकस्य सिद्धिः, सोऽधिकरणसिद्धान्तः, यथा कार्यत्वादेः क्षित्यादौ बुद्धिमत्कारणसामान्यसिद्धावन्यस्य तत्कारणसमर्थस्य नित्यज्ञानेच्छाप्रयत्नाधारस्य तत्कारणस्य सिद्धिरिति । प्रौढवादिभिः स्वबुद्ध्यतिशयचिख्यापयिषया यत्किंचिद्वस्त्वपरीक्षितमभ्युपगम्य विशेषः परीक्ष्यते, सोऽभ्युपगमसिद्धान्तः, यथास्तु द्रव्यं शब्दः, स तु किं नित्योऽनित्यो वेति शब्दस्य द्रव्यत्वमनिष्टमभ्युपगम्य नित्यानित्यत्वविशेषः परीक्ष्यते एवं चतुर्विधः सिद्धान्तः ।।२६।। ટીકાનો ભાવાનુવાદ:
વ્યાખ્યા : દેખીતો નિશ્ચય જેમાં હોય તે દૃષ્ટાંત. અર્થાતુ જેમાં દેખીતી રીતે નિશ્ચય થતો હોય તે દૃષ્ટાંત થાય. વળી પ્રશ્ન છે કે આ દૃષ્ટાંત કેવું હોય ?
ઉત્તર : જે ઉપન્યસ્ત થતે છતે વાદિ અને પ્રતિવાદિ બંનેને પરસ્પરવિવાદનો વિષય ન થાય તે દૃષ્ટાંત કહેવાય. આથી કહેવાનો આશય એ છે કે અનુમાનાદિમાં વાદિ અને પ્રતિવાદિ બંનેને સંમત જ દૃષ્ટાંતનો ઉપન્યાસ કરવો જોઈએ.
પ્રશ્ન : (સાતમા તત્ત્વ) અવયવમાં (પાંચ અવયવોમાં)આ દૃષ્ટાંત કહેવામાં આવશે, તો અહીં પૃથગૃતત્ત્વ તરીકે ઉપન્યાસ શા માટે કર્યો છે. ?
ઉત્તર : જો કે પાંચઅવયવોમાં દૃષ્ટાંત કહેવાશે, તો પણ દષ્ટાંત સાધ્ય-સાધનધર્મના પ્રતિબંધ (સંબંધ)ના ગ્રહણનું સ્થાન છે. (સાધ્ય-વગ્નિ અને સાધન-ધૂમના સંબંધ ગ્રહણનું સ્થાન જેમકે