________________
१५४
षड्दर्शन समुशय भाग-१, श्लोक - १७, १८, १९, नैयायिक दर्शन
अथ निकर्षग्रहणमेवास्तु सं-ग्रहणं व्यर्थम्, न, सं-शब्दग्रहणस्य सन्निकर्षषट्कप्रतिपादनार्थत्वात् । एतदेव सन्निकर्षषट्कं ज्ञानोत्पादे समर्थं कारणं, न संयुक्तसंयोगादिकमिति संग्रहणाल्लभ्यते । इन्द्रियार्थसन्निकर्षादुत्पन्नं जातम् । उत्पत्तिग्रहणं कारकत्वज्ञापकार्थम् । अत्रायं भावः । इन्द्रियं हि नैकट्यादर्थेन सह संबध्यते, इन्द्रियार्थसंबन्धाश्य ज्ञानमुत्पद्यते । यदुक्तम्“आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्र । योगोऽयमेव मनसः किमगम्यमस्ति, यस्मिन्, मनो व्रजति तत्र गतोऽयमात्मा ।।१।।"
ज्ञानसंग्रहणं सुखादिनिवृत्त्यर्थं, सुखादीनामज्ञानरूपत्वात् । सुखादयो ह्यालादादिस्वभावा ग्राह्यतयानुभूयन्ते, ज्ञानं त्वर्थावगमस्वभावं ग्राहकतयानुभूयत इति ज्ञानसुखाद्योर्भेदोऽध्यक्षसिद्ध एव । अव्यपदेश्यं नामकल्पनारहितं, नामकल्पनायां हि शाब्दं स्यात् । अव्यपदेश्यपदग्रहणाभावे हि व्यपदेशः शब्दस्तेनेन्द्रियार्थसन्निकर्षेण चोभाभ्यां यदुत्पादितं ज्ञानं तदप्यध्यक्षफलं स्यात्तन्निवृत्त्यर्थमव्यपदेशपदोपादानम् । इदमत्र तत्त्वम्चक्षुर्गोशब्दयोापारे सत्ययं गौरिति विशिष्टकाले यज्ज्ञानमुपजायमानमुपलभ्यते, तच्छब्देन्द्रियोभयजन्यत्वेऽपि प्रभूतविषयत्वेन शब्दस्य प्राधान्याच्छाब्दमिष्यते, न पुनरध्यक्षमिति । इन्द्रियजन्यस्य मरुमरीचिकासूदकज्ञानस्य, शुक्तिशकले कलधौतबोधादेश्च निवृत्त्यर्थमव्यभिचारिपदोपादानम् । यदतस्मिंस्तदित्युत्पद्यते तद्व्यभिचारि ज्ञानम्, तद्व्यवच्छेदेन तस्मिंस्तदिति ज्ञानमव्यभिचारि । व्यवसीयतेऽनेनेति व्यवसायो विशेष उच्यते । विशेषजनितं व्यवसायात्मकं, अथवा व्यवसायात्मकं निश्चयात्मकम् । एतेन संशयज्ञानमनेकपदार्थालम्बनत्वादनिश्चयात्मकत्वाश्च प्रत्यक्षफलं न भवतीति ज्ञापितम् । नन्वेवमपि ज्ञानपदमनर्थकमन्त्यविशेषणाभ्यां ज्ञानस्य लब्धत्वात, न । धर्मप्रतिपादनार्थत्वादस्य, ज्ञानपदोपात्तो हि धर्मीन्द्रियार्थसन्निकर्षजत्वादिभिर्विशेष्यते । अन्यथा धर्यभावे क्वाव्यभिचारादीन् धर्मास्तत्पदानि प्रतिपादयेयुः । केचित्पुनरेवं व्याचक्षते । अव्यपदेश्यं व्यवसायात्मकमिति पदद्वयेन निर्विकल्पकसविकल्पकभेदेन प्रत्यक्षस्य द्वैविध्यमाह, शेषाणि तु ज्ञानविशेषणानीति । ટીકાનો ભાવનુવાદઃ શંકા સન્નિકર્ષમાં, ‘’ નું ગ્રહણ ન કરો અને નિકર્ષ' રાખો તો પણ ચાલશે. કારણકે ઇન્દ્રિય અને અર્થ નજીકઆવવાથી પ્રત્યક્ષ જ્ઞાન થઈ જશે. (નિઝર્ષનો અર્થ નજીક છે.)