SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुशय भाग - १, श्लोक - ११, बोद्धदर्शन १३१ अत्रानुक्तोऽपि विशेषः कश्चन लिख्यते । 'तत्र प्रमाणादभिन्नमर्थाधिगम एव प्रमाणस्य फलम् । तर्कप्रत्यभिज्ञयोरप्रामाण्यं, परस्परविनि ठितक्षणक्षयिपरमाणुलक्षणानि स्वलक्षणानि, प्रमाणगोचरस्तात्त्विकः । वासनारूपं कर्म, सुखदुःखे धर्माधर्मात्मके पर्याया एव सन्ति, न द्रव्यम् । वस्तुनि केवलं स्वसत्त्वमेव, न पुनः परासत्त्वमिति सामान्येन बौद्धमतम् । अथवा वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिक-भेदाश्चतुर्धा बौद्धा भवन्ति । तत्रार्यसमितीयापरनामकवैभाषिकमतमदः - चतुःक्षणिकं वस्तु । जातिर्जनयति । स्थिति स्थापयति । जरा जर्जरयति । विनाशो विनाशयति । तथात्मापि तथाविध एव पुद्गलश्चासावभिधीयते । निराकारो बोधोऽर्थसहभाव्येकसामग्र्यधीनस्तत्रार्थे प्रमाणमिति । सौत्रान्तिकमतं पुनरिदम्-रुपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा । त एव हि परलोकगामिनः । तथा च तत्सिद्धान्तः । पञ्चेमानि भिक्षवः संज्ञामानं प्रतिज्ञामात्रं संवृतिमात्रं व्यवहारमात्रम् । कतमानि पञ्च । अतीतोऽद्धा, अनागतोऽद्धा, सहेतुको विनाशः, आकाशं, पुद्गल इति । अत्र पुद्गलशब्देन परपरिकल्पितो नित्यत्वव्यापकत्वादिधर्मक आत्मेति । बाह्योऽर्थ नित्यमप्रत्यक्ष एव ज्ञानाकारान्यथानुपपत्त्या तु सन्नवगम्यते । साकारो बोधः प्रमाणम् । तथा क्षणिकाः सर्वसंस्काराः । स्वलक्षणं परमार्थः यदाहुस्तद्वादिनः । प्रतिक्षणं विशरारवो रुपरसगन्धस्पर्शपरमाणवो ज्ञानं चेत्येव तत्त्वमिति [ ] । अन्यापोहः शब्दार्थः । तदुत्पत्तितदाकारताभ्यामर्थपरिच्छेदः । नैरात्म्यभावनातो ज्ञानसंतानोच्छेदो मोक्ष इति । ટીકાનો ભાવાનુવાદઃ અહીં મૂળ શ્લોકમાં નહિ કહેલું પણ કંઈક વિશેષ કહેવાય છે. અધિગમ પ્રમાણનું ફળ છે કે જે પ્રમાણથી સર્વથા અભિન્ન હોય છે. તર્ક અને પ્રત્યભિજ્ઞા પ્રમાણભૂત નથી. સ્વલક્ષણ પરસ્પર અત્યંતભિન્ન ક્ષણિક પરમાણુરૂપ હોય છે. તે જ પ્રમાણનો તાત્ત્વિકવિષય છે. કર્મ વાસનારૂપ છે. સુખ અને દુઃખ ધર્માધર્મસ્વરૂપ પર્યાયો જ છે, દ્રવ્યરૂપ નથી. વસ્તુમાં માત્ર સ્વરૂપ સત્ત્વ જ હોય છે. પરંતુ પરાસત્ત્વ હોતું નથી. અર્થાત્ પરસ્વરૂપે અસત્ત્વ (नास्तिता) डोतुं नथी. मा सामान्यथा बौद्धमतनु नि३५९। छे. १ द्वादशैव पदार्थो आयतनसंज्ञयोच्यते, तद्यथा-पञ्चेन्द्रियाणि पञ्च शब्दादयो मनो धर्मायतनं च । धर्मास्तु सुखादयो विज्ञेयाः अविसंवादिज्ञानं प्रमाणमिति प्रमाणस्य लक्षणं । प्रत्यक्षानुमाने द्वे एव प्रमाणे । इति प्रत्यन्तरेऽधिकः पाठो दरीदृश्यते । A આ વાત માધ્ય વૃ૦ પૃ. ૩૮૯ ઉપર જોવા મળે છે.
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy