________________
जैनतर्कभाषा ।
याणां बुद्धयापनयस्य कर्तुमशक्यत्वात् । न खलु ज्ञानायतार्थ - परिणतिः, किन्तु अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीति । न चैवं नामादिचतुष्टयस्य व्यापिताभङ्गः, यतः प्रायः सर्वपदार्थेष्वन्येषु तत् सम्भवति । यद्यत्रैकस्मिन्न सम्भ यति नैतावता भवत्यव्यापितेति वृद्धाः । जीवशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्यजीव इत्यप्याहुः । अपरे तु वदन्ति - अहमेव मनुष्यजीवो [ द्रव्यजीवो] ऽभिधातव्यः उत्तरं देवजीवमप्रादु
तमाश्रित्य अहं हि तस्योत्पित्सोर्देव जीवस्य कारणं भवामि, १० यतश्चाहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति । एतत्कथितं तैर्भवति-पूर्वः पूर्वो जीवः परस्य परस्योत्पत्सोः कारणमिति । अस्मिंश्च पक्षे सिद्ध एव भावजीवो भवति, नान्य इति एतदपि नानवद्यमिति तत्त्वार्थटीकाकृतः ।
Yo
१५
२०
इदं पुनरिहावधेयं - इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः, एकवस्तुगतानां नामादीनां भावाविना भूतत्वप्रतिपाद
तदाह भाष्यकारः
" अहवा वत्थूभिहाणं, नामं ठवणा य जो तयागारो । कारणया से दव्वं, कज्जावनं तयं भावो ॥ १ ॥ " [६० ]
इति । केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्यात्, मनुष्यादेर्देवत्वादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं नयरहस्यादौ विवेचितमस्माभिः ॥
॥ इति महामहोपाध्याय श्री कल्याण विजयगणिशिष्यमुख्यपण्डितश्रीलाभ विजयगणिशिष्यावतंसपण्डितश्रीजीत विजयगणि सतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डित श्री पद्मविजयगणि सोदरेण पण्डितयशोविजयगणिना विरचितायां जैनतर्कभाषायां निक्षेपपरिच्छेदः
संपूर्णः, तत्सपूर्त्ता च संपूर्णेयं जैनतर्कभाषा ॥
॥ स्वस्तिश्रीश्रमणसङ्घाय ॥
WE