________________
जैनतर्कभाषा। वात् । भावात्मकं च सर्व परापरकार्यक्षणसन्तानात्मकस्यैव तस्यानुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवादः।
। अथ निःक्षेपनयसंयोजना । अथ नामादिनिक्षेपा नयैः सह योज्यन्ते। तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाभिमतम्, पर्यायास्तिकनयस्य च भाव एव । आद्यस्य भेदो संग्रहव्यवहारौ, नैगमस्य यथाक्रम सामान्यग्राहिणो विशेषग्राहिणश्च अनयोरेवान्तर्भावात् । ऋजुसूत्रादयश्च
चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाभिहितं १० जिनभद्रगणिक्षमाश्रमणपूज्यपादैः"नामाइतियं दव्वट्ठियस्य भावो अ पज्जवणयस्स ।
संगहववहारा पढमगस्स सेसा उ इयरस्स ॥” [७५]
इत्यादिना विशेषावश्यके।स्वमते तु नमस्कारनिक्षेपविचारस्थले .' “भावं चिय सदणया सेसा इच्छन्ति सव्वणिक्खेवे" [२८४७] १५ इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद्भावमेवेच्छन्ति
ऋजुसूत्रादयस्तु चत्वारश्चतुरोपि निक्षेपानिच्छन्ति अविशुद्धत्वादित्युक्तम् । ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तत्र (तन्न); ऋजुसूत्रेण द्रव्याभ्युपगमस्य सूत्राभिहितत्वात् , पृथ
क्त्वाभ्युपगमस्य परं निषेधात्। तथा च सूत्रम्- "उज्जुसु२० अस्स एगे अणुवउत्ते आगमओ एगं दवावस्सयं, पुहत्तं नेच्छा
त्ति" [अनुयो० सू० १४ ]। कथं चाय पिण्डावस्थायां सुवर्णादि. द्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षणभावहेतुत्वेनाभ्युगच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकारामिन्द्रादिस्थापनां
नेच्छेत् ?, न हि दृष्टेऽनुपपन्नं नामेति। किञ्च, इन्द्रादिसज्ञामात्रं २५ तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारण
त्वाविशेषात् कुतो नामस्थापने नेच्छेत् १ । प्रत्युत सुतरां तद