________________
J
नतकैमाषा। भङ्गीमनुगच्छति, विकलादेशत्वात्, परमेतद्वाक्यस्य प्रमाणवाक्याद्विशेष इति द्रष्टव्यम् ।
। अथ नयाभासनिरूपणम् । __ .अथ नयाभासाः। तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्या५ र्थिकाभासः। पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः।
धर्मिधर्मादीनामे (मै) कान्तिकपार्थक्याभिसन्धिर्नेगमाभासः, यथा नैयायिकवैशेषिकदर्शनम् । सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणः संग्रहाभासः यथाऽखिलान्यद्वैतवादिदर्श
नानि सांख्यदर्शनं च । अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो १० व्यवहाराभासः, यथा चार्वाकदर्शनम् , चार्वाको हि प्रमाणप्र
तिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापनुतेऽविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता
सर्वथा द्रव्यापलापी ऋजुसूत्राभासः, यथा ताथागतं मतं । १५ कालादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः, यथा बभूव
भवति भविष्यति सुमेरुरित्यादयः शब्दा भिन्नमेवार्थमभिदधति, भिन्नकालशब्दत्वात्ताहसिहान्यशब्दवदिति । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः, यथा
इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्न२० शब्दत्वात् , करिकुरङ्गशब्दवदिति । क्रियानाविष्टं वस्तु शब्द
वाच्यतया प्रतिक्षिपन्नेवंभूताभासः, यथा. विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतकियाशून्यत्वात् , पटवदिति । अर्थाभिधायी शब्दप्रतिक्षेपी अर्थन
याभासः । शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः। अर्पित२५ मभिदधानोऽनर्पित प्रतिक्षिपन्नर्पितनयाभासः । अनर्पितमभिदधदर्पितं प्रतिक्षिपन्ननर्पिताभासः। लोकव्यवहारमभ्युपगम्य तत्त्वप्रतिक्षेपी व्यवहाराभासः । तत्त्वमभ्युपगम्य व्यवहारप्रतिक्षेपी निश्चयाभासः। ज्ञानमभ्युपगम्य क्रियाप्रतिक्षेपी ज्ञाननया