________________
। अथ नयपरिच्छेदनामा द्वितीयः परिच्छेदः । २. नयपरिच्छेदः।
->eoHI
। अथ नयनिरूपणम्। ५ प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः । प्रमाणैकदेशत्वात् तेषां ततो भेदः । यथा हि समुद्रैकदेशो न समुद्रो नाप्यसमुद्रस्तथा नया अपि न
प्रमाणं न वाऽप्रमाणमिति । ते च द्विधा-द्रव्यार्थिकपर्यायार्थिक१० भेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः। प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रिधा नैगमस
महव्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा ऋजुसूत्रशब्दसमभिरूढैवंभूतभेदात् । ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिन
भद्रगणिक्षमाश्रमणाः। १५ तत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो
नैगमः, यथा पर्याययोर्द्रव्ययोः पर्यायव्ययोश्च मुख्यामुख्यरूपतया विवक्षणपरः । अत्र सच्चैतन्यमात्मनीति पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात्, सत्त्वाख्यस्य तु विशेषणत्वेनामुख्य२० त्वात् । प्रवृत्तिनिवृत्तिनिवन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्ज
नपर्यायः । भूतभविष्यत्त्वसंस्पर्शरहितं वर्तमानकालावच्छिन्नं वस्तुस्वरूपं चार्थपर्यायः । वस्तु पर्यायवद्रव्यमिति द्रव्ययोर्मु. ख्यामुख्यतया विवक्षणम्, पर्यायवद्रव्याख्यस्य धर्मिणो विशे