________________
१. प्रमाणपरिचोदः। कमपीति मोऽयं दशावययो हेतुः पर्यवस्यति ।
। अथ हेतुविभागः । स चायं द्विविधः-विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविधः विधिसाधकः प्रतिषेधसाधकश्च । तत्राद्यः षोढा, तद्यथा-कश्चिद्याप्य एव, यथा शब्दोनित्यः प्रयत्नेनान्तरीयक- ५ स्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यना. त्मव्याप्यस्यात् (त्र) ग्रहणाद्भेदः, वृक्षः शिंशपाया इत्यादेरप्यत्रैवान्तर्भावः। कश्चित्कार्यरूपः, यथा पर्वतोऽयमग्निमान् धूमवक्वान्यथानुपपत्तेरित्यत्र धूमः, धूमो ह्यग्ने कार्यभूतः तदभावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित्कारणरूपः, यथा वृष्टिर्भवि- १० प्यति, विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, म हि वर्षस्य कारणं स्वकार्यभूतं वर्ष गमयति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम् , अत एव न वहिणूंमं गमयतीति चेत्, सत्यम्; यस्मिन्सामथ्योप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापक- १५ त्वात् । कश्चित् पूर्वचरः, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तरित्यत्र कृत्तिकोदयानन्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चित् उत्तरचरः, यथोदगाद्भरणिः प्राक्, कृतिकोदयादित्यत्र कृत्तिकोदयः, कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयतीति २० कालव्यवधानेनानयोः कार्यकारणाभ्यां भेदः। कश्चित् सहचरः, यथा मातुलिङ्गरूपवद्भवितुमर्हति रसवत्तान्यथानुपपत्तेरित्यत्र रसः, रसो हि नियमेन रूपसहचरितः, तदभावेऽनुपपद्यमानस्त द्गमयति, परस्परस्वरूपपरित्यागोपलम्भ-पौर्वापर्याभावाभ्यां स्वभावकार्यकारणेभ्योऽस्य भेदः । एतेपूदाहरणेयु भावरूपानेवा- २५ रन्यादीन साधयन्ति धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपास्त एवाविरुद्रोपलब्धय इत्युच्यन्ते ।
द्वितीयस्तु निषेधसाधको विरुद्धोपलब्धिनामा । स च स्वभा