________________
२६
रायचन्द्रजैनशास्त्रमालायाम् सहान्योन्यसंमूर्छनं पुद्गलानाञ्च बन्धः । अत्यन्तशुद्धात्मोपलम्भो जीवस्य जीवेन सहात्यन्तविश्लेषः कर्मपुद्गलानाञ्च मोक्ष इति ॥
अथ जीवपदार्थानां व्याख्यानं प्रपञ्चनार्थम् । [१०९] जीवस्वरूपोपदेशोऽयम् । जीवाः हि द्विविध/ः । संसारस्था अशुद्धा निर्वृत्ताः शुद्धाश्च । ते खलूभयेऽपि चेतनस्वभावाः । चेतनपरिणामलक्षणेनोपयोगेन लेक्षणीयाः । तत्र संसारस्था देहप्रवीचार्राः । निर्वृत्ता अदेहप्रवीचारा इति ॥
[११० ] पृथिवीकायादिपञ्चविधोद्देशोऽयम् । पृथिवीकायाः, अप्कायाः, तेजःकायाः, वायुकायाः, वनस्पतिकायाः, इत्येते पुद्गलपरिणामा बन्धवशाजीवानुसंश्रिताः । अवान्तरजातिभेदाबहुका अपि स्पर्शनेन्द्रियावरणक्षयोपशमभाजां जीवानां बहिरङ्गस्पर्शनेन्द्रियनिर्वृत्तिभूताः कर्मफलचेतनाप्रधानत्वान्मोहबहुलमेव स्पर्शोपलम्भमुपपादयन्ति ॥
[१११-११२] पृथिवीकायिकादीनां पञ्चानामेकेन्द्रियत्वनियमोऽयम् । पृथिवीकायिकादयो हि जीवा स्पर्शनेन्द्रियावरणक्षयोपशमात् शेषेन्द्रियावरणोदये नोइन्द्रियावरणोदये च सत्येकेन्द्रिया अमनसो भवन्तीति॥
[११३] एकेन्द्रियाणां चैतन्यास्तित्वे दृष्टान्तोपन्यासोऽयम् । अण्डान्तीनानां, गर्भस्थानां, मूछितानां च बुद्धिपूर्वकव्यापारादर्शनेऽपि येन प्रकारेण जीवत्वं निश्चीयते, तेन प्रकारेणैकेन्द्रियाणामपि उभयेर्षामपि बुद्धिपूर्वकव्यापारादर्शनस्य समानत्वादिति ॥
[११४ ] द्वीन्द्रियप्रकारसूचनेयम् । एते स्पर्शनरसनेन्द्रियावरणक्षयोपशमात् शेषेन्द्रियावरणोदये नोइन्द्रियावरणोदये च सति, स्पर्शरसयोः परिच्छेत्तारो द्वीन्द्रिया अमनसो भवन्तीति ॥
[११५ ] त्रीन्द्रियप्रकारसूचनेयम् । एते स्पर्शनरसनघ्राणेन्द्रियावरणक्षयोपशमात् शेषेन्द्रियावरणोदये नोइन्द्रियावरणोदये च सति, स्पर्शरसगन्धानां परिच्छेत्तारस्त्रीन्द्रिया अमनसो भवन्तीति ॥
[११६ ] चतुरिन्द्रियप्रकारसूचनेयम् । एते स्पर्शनरसनघ्राणचक्षुरिन्द्रियावरणक्षयोपशमात्, श्रोत्रेन्द्रियावरणोदये नोइन्द्रियावरणोदये च सति, स्पर्शरसगन्धवर्णानां परिच्छेत्तारश्चतुरिन्द्रिया अमनसो भवन्तीति ॥
[११७ ] पञ्चेन्द्रियप्रकारसूचनेयम् । अथ स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियावरणक्षयोपशमात् नोइन्द्रियावरणोदये सति स्पर्शरसगन्धवर्णशब्दानां परिच्छेत्तारः पञ्चेन्द्रिया अमनस्काः । केचित्तु नोइन्द्रियावरणस्यापि क्षयोपशमात् समनस्काश्च भवन्ति । तत्र देवमनुष्यनारकाः समनस्का एव, तिर्यश्च उभयआतीया इति ॥
मारिन॥
. १ एकदेशसङ्ख्यः. २ एकत्र सम्बन्धित्वं द्रव्यबन्धः. ३ 'प्रपञ्चयति' इति वा पाठः. ४ संसारस्थाः, निर्वृत्ताः। तत्र संसारस्था अशुद्धा ज्ञातव्यास्तु पुनः निर्वृत्ताः शुद्धा ज्ञातव्या इत्यर्थः. ५ परीक्षणीयाः. ६ देहस्य प्रवीचारो भोगस्तेन सहिताः देहसहिता इत्यर्थः. ७ न देहप्रवीचारा अदेहप्रवीचारा इति समासः. ८ सर्वेषां चेत् विवक्षा पृथक् पृथक् एवं पृथिवीकायिकाः सप्तलक्षजातिका एवं अप् तेज: वायुरपि सप्तसप्तलक्षजातयः, वनस्पतीनां दशलक्षजातयः सन्ति । एवं पञ्चानां बहुका अवान्तरभेदा ज्ञातव्याः. ९ जीवत्वं निश्चीयते. १० एके. न्द्रियाणां अण्डमध्यादिवर्तिपञ्चेन्द्रियाणाञ्च.