________________
पञ्चास्तिकायसमयसारस्य टीका। [१०६ ] मोक्षमार्गस्यैव तावत्सूचनेयम् । सम्यक्त्वज्ञानयुक्तमेव नासम्यक्त्वज्ञानयुक्तं, चारित्रमेव नाचारित्रं, रागद्वेषपरिहीणमेव न रागद्वेषापरिहीणम्, मोक्षस्यैव न भावतो बन्धस्य, मार्ग एव नामार्गः, भव्यानामेव नामव्यानां, लब्धबुद्धीनामेव नालब्धबुद्धीनां, क्षीणकषायत्वे भवत्येव, न कषायसहितत्वे भवतीत्यष्टधा नियमोऽत्र द्रष्टव्यः ॥ - [१०७] सम्यग्दर्शनज्ञानचारित्राणां सूचनेयम् । भावाः खलु कालकलितपञ्चास्तिकायविकल्परूपा नव पदार्थास्तेषां मिथ्यादर्शनोदयापादिताश्रद्धानाभावस्वभावं, भावान्तरश्रद्धानं, सम्यग्दर्शनं शुद्धचैतन्यरूपात्मतत्वविनिश्चयबीजम् । तेषामेव मिथ्यादर्शनोदयान्नौया संस्कारादिस्वरूपविपर्ययेणाध्यवसीयमानानां तन्निवृत्तौ समञ्जसाऽध्यवसायः । सम्यक्ज्ञानं मनाक्ज्ञानचेतनाप्रधानात्मतत्त्वोपलम्भबीजम् । सम्यग्दर्शनज्ञानसन्निधानादमार्गेभ्यः समग्रेभ्यः परिच्युत्य स्वतत्त्वे विशेषेण रूढमार्गाणां सतामिन्द्रियानिन्द्रियविषयभूतेष्वर्थेषु, रागद्वेषपूर्वकविकाराभावान्निर्विकारावबोधस्वभावः समभावश्चारित्रं तदात्वायतिर. मणीयमनणीयसोऽपुनर्भवसौख्यस्यैकबीजम् । इत्येष त्रिलक्षणो मोक्षमार्गः पुरस्तान्निश्चयव्यवहाराभ्यां व्याख्यास्यते । इह तु सम्यग्दर्शनज्ञानयोर्दर्शनज्ञानयोर्विषयभूतानां नवपदार्थानामुपोद्धातहेतुत्वेन सूचित इति ॥
[१०८] पदार्थानां नामस्वरूपाभिधानमेतत् । जीवः, अजीवः, पुण्यं, पापं, आस्रवः, संवरो, निर्जरा, बन्धः, मोक्ष इति नवपदार्थानां नामानि । तत्र चैतन्यलक्षणो जीवास्तिकाय एवेह जीवः । चैतन्याभावलक्षणोऽजीवः । सपञ्चधा पूर्वोक्त एव पुद्गलास्तिकः, आकाशास्तिकः, धर्मास्तिकः, अधर्मास्तिकः, कालद्रव्यश्चेति । इमौ हि जीवाजीवौ पृथग्भूताऽस्तित्वनिवृत्तत्वेन भिन्नस्वभावभूतौ मूलपदार्थों । जीवपुद्गलसंयोगपरिणामनिर्वृत्ताः सप्ताऽन्ये च पदार्थाः । शुभपरिणामो जीवस्य, तन्निमित्त कर्मपरिणामः पुद्गलानाञ्च पुण्यम् । अशुभपरिणामो जीवस्य, तन्निमित्तः कर्मपरिणामः पुद्गलानाञ्च पापम् । मोहरागद्वेषपरिणामो जीवस्य, तन्निमित्तः कर्मपरिणामो योगद्वारेण प्रविशतां पुद्गलानाश्चास्रवः । मोहरागद्वेषपरिणामनिरोधो जीवस्य, तन्निमित्तः कर्मपरिणामनिरोधो योगद्वारेण प्रविशतां पुद्गलानाश्च संवरः । कर्मवीर्यशातनसमर्थो बहिरङ्गान्तरङ्गतपोभिहितशुद्धोपयोगो जीवस्य, तदनुभौवनीरसीभूतानामेकदेशसंक्षयः समुपात्तकर्मपुद्गलानाञ्च निर्जरा । मोहरागद्वेषस्निग्धपरिणामो जीवस्य, तन्निमित्तेन कर्मत्वपरिणतानां जीवेन
१ खात्मोपलब्धिरूपस्य. २ शुद्धात्मानुभूतिप्रच्छादकबन्धस्य. ३ कथंभूतं सम्यग्दर्शनं शुद्धचैतन्यखरूपात्मतत्वविनिश्चयबीजम् . ४ नवपदार्थानामेव. ५ यथा नौयानसंस्कारादिखरूपविपर्ययेणेत्यनेन नावि स्थितस्य खस्य गमनं न दृश्यते । अन्येषां स्थिरीभूतानां सर्वेषां वृक्षपर्वतादीनां गमनं दृश्यते । कुतः खसारादिस्वरूपविपर्ययात् । अनेन संस्कारादिखरूपविपर्ययेण अध्यवसीयमानानां निश्चीयमानानां, तथा मिथ्यादर्शनोदयात् स्वरूपविपर्ययेण गृहीतानां नवपदार्थानाम् . ६ पुनः तन्निवृत्तौ मिथ्यादर्शननिवृत्तौ सत्याम्. ७ सम्यग्निर्णयः कथंभूतं सम्यग्ज्ञानं मनाक् ज्ञानचेतनायाः प्रधानात्मतत्त्वोपलम्भबीजम् . ९ मार्ग आरूढानां तिष्ठतां. १० कथंभूतं चारित्रं तदात्वायतिरमणीयं वर्तमाने उत्तरकाले च रमणीयं सुखदायक। पुनः कीदृशम् अनणीयसः अपुनर्भवसौख्यस्यैकबीजं । अनणीयसः महतः अपुनर्भवसौख्यस्य मोक्षस्य एकं बीजम् । ११ भावपुण्यम् . १२ तदेव भावपुण्यं निमित्तं कारणं यस्य सः. १३ कर्माष्टकपर्यायः द्रव्यपुण्यं. १४ वधित-. १५ तस्य शुद्धोपयोगस्य अनुभावं प्रभावं तेन कारणेन रसरहितानां समुपात्तकर्मपुद्गलानां च निर्जरा ज्ञातव्या.