________________
स्थाहादमञ्जरी। र्षादियस्मिन् हि समर्थ उपलब्धो भवति स तत्करणं न चेन्द्रियसन्निकर्षसामग्रादौ सत्यपि ज्ञानाभावे ऽर्थोपलम्भः साधकतमं हि करणमव्यवहितफलं तदिष्यते व्यवहितफलस्यापि करणत्वे दुग्धभोजनादेरपि तथा प्रसङ्गः तन्न ज्ञानादन्यत्र प्रमाणत्वमन्यवोपचारात् थदपि न्यायभूषणसूत्रकारणोक्तं " सम्यगनुभवसाधनं प्रमाणमि ” ति तत्रापिसाधनग्रहणात्कर्टकर्मनिरासन करणस्यैव प्रमाणत्वं सिध्यति तथाप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवेति न तत्सम्यग्लक्षणं "स्वपरव्यवसायि ज्ञानं प्रमाणमि" ति तु तात्विक लक्षणं प्रमेयमपि तैरात्मशरोरेन्द्रियार्थबुद्धिमनःप्रत्तिदोषप्रत्यभावफलदुःखापवर्गभेदाद् हादविधमुक्तं तच्च न सम्यग् यतः शरोरेन्द्रियबुद्धिमन:प्रत्तिदोषफलदुःखानामात्मन्येवान्तर्भावी युक्तः संसारिणः आत्मनः कथं चित्तदविष्वगभूतत्वात् श्रात्मा च प्रमेय एव न भवति तस्य प्रमाटत्वात् इन्द्रियबुद्धिमनसां तु करणत्वात् प्रमेयत्वाभावः दोषास्तु रागद्वेषमोहास्ते च प्रवृत्ते न पृथग्भवितु मर्हन्ति चाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिवि. धस्य तन्मते प्रत्तिशब्दवाच्यत्वात् रागादिदोषाणां च मनोव्यापारात्मकत्वात् दुःखस्य शब्दादौनामिन्द्रियार्थानां च फल एवान्तर्भाव: "प्रत्तिदोषजनितं सुखदःखात्मकं मुख्यं फलं तत्साधनं तु गौणमि" ति जयन्तवचनात् प्रत्यभावापवर्गयोः पुनरात्मन एक