________________
स्याहादमञ्जरी ।
चार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्यानुष्ठानं भगवद्ग ुणस्तवनं मन्यमान श्रद्धामेव भूतिकरऽ साधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं न पुनर्यथावस्थितभगवद्गुण स्तवनसिडिरिति सूचितवान् अहमिति च गतार्थत्वेऽपि परोपदेशान्यानुवृत्त्यादिनि रपेक्षतया निजश्रइयैव स्तुतिप्रारम्भ इतिज्ञापनार्थं अथ वा श्रीवर्ड मानादिविशेषण चतुष्टयमनन्तविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमङ्गावेन व्याख्यायते यत एव श्रवई मानमतएवानन्तविज्ञानं श्रिया कृत्मकर्मक्षयाविर्भूतानन्तचतुष्कसंपद्रूपया वर्द्धमानं यद्यपि श्रीवर्ड - मानस्य परमेश्वरस्यानन्त चतुष्क संपत्ते रुत्पत्त्यनन्तरं सर्वकालं तुल्यत्वाच्चयापचयौ न स्तस्तथापि निरपचयत्वेन शाश्वतिकावस्थानयोगाद्दर्द्ध मानत्वमुपचयते यद्यपि च श्री ईमान विशेषणेनानन्तचतुष्कान्तर्भा वित्वेनानन्तविज्ञानत्वमपिसिद्धं तथाप्यनन्तविज्ञानस्यैव परोपकार साधकतमत्वाङ्गगवत्पत्तेश्च परोपकारैकनिबन्धनत्वादनन्तविज्ञानत्वं शेषानन्तत्रयात्पृथग् निर्धार्याचार्येणोक्तं ननु यथा जगन्नाथस्यानन्तविज्ञानं परार्थं तथानन्तदर्शनस्य केवल परपर्यायस्य पारार्थ्यमव्याहतमेव केवलज्ञान केवलदर्शनाभ्यामेव हि खामी क्रमप्रवृत्तिभ्यामुपलब्धं सामान्यविशेषात्मकं पदार्थसार्थं परेभ्यः प्ररूपयति तत्किमर्थं तन्नोपातमिति चेटुच्यते विज्ञानशब्देन तस्यापि संग्रहाददोषः ज्ञानमा भयत्रापि समानत्वात् यएव हि अ